________________
Shri Mahavir Jain Aradhana Kendra
अनु. १३. ]
www. kobatirth.org
arrestria
Acharya Shri Kailassagarsuri Gyanmandir
स॑मु॒द्रस्य॒ वोक्ष॑त्या॒ उन्न॑ये । यम॑ग्ने॒
1
अ॒पाम् । मृधम् । समु॒द्रस्य॑ । व॒ः । अक्षि॑त्यै । उदिति॑ । न॒ये॒ । 'यम् । अ॒ग्ने॒ पृत्स्विति॑ पृ॒त्— सु ।
847
.
अप्सु हुतं कार्षिः कर्षणीयमपनेतव्यमसि । 'कृषेर्वृद्धिश्छन्दसि' इति कृषेरिञ्प्रत्ययः । यस्मादेवं तस्मात्त्वामपप्लावयामि अपनयामीत्यर्थः । अपेत्युपसर्गश्रुतैर्योग्यं क्रियापदमध्याद्दियते । कुतः पुनरिदमवसीयत इत्याह- अपां मृधं यस्मात्त्वमपां सम्बन्ध्यनिष्टरूपं ; युद्धाभिधायिना मृधशब्देनानिष्टरूपत्वं लक्ष्यते । तदस्यास्तीति मृभ्रम् | 'लुगकारेकाररेफाश्च वक्तव्या: ' इति मत्वर्थीयो रप्रत्ययः । दोषरूपं त्वामपनयामीत्यर्थः । यद्वा कठिनत्वं लक्ष्यते ; आज्यं च जलगतं चेत्कठिनं भवति i तस्य दोषरूपत्वादपनयामीति । 'कार्षिरसीत्याह शमलमेवासामप लावयति '* इति ब्राह्मणम् ॥
----
" बर्हिष्यन्तयोन्नयति —– समुद्रस्य व इति ॥ समुद्रस्योदकराशेः पूर्वेद्युर्गृहीतस्य वसतीवरीशब्दवाच्यस्य अक्षित्यै अक्षणाय युष्मा - नुन्नये मैत्रावरुणचमसेन गृह्णामीति । ' मित्रावरुणौ वा अपां नेतारौ ' * तस्मादद्यमानाः ' इत्यादि ब्राह्मणम् ||
"
For Private And Personal Use Only
'क्रतुकरणं जुहोति - यमन इति त्रिपदया गायत्र्या ॥ ' यद्यमिष्टोमो जुहोति '* इति ब्राह्मणम् । हे अग्ने यं मर्त्यं एत्सु सङ्ग्रामेषु आवः रक्षसि । ‘छन्दसि लुडडिट: ' इत्यवतेर्लङ्,
*सं. ६-४-३.