________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
346
तैत्तिरीयसाहिता
का.१. प्र.३.
पाद्य ऊर्मिर हविष्य इन्द्रियान्मिदिन्तमस्तं देवेभ्यो देवत्रा धत्त शुक्र शुक्रपेभ्यो येषां भागस्स्थ
स्वाहा कापिरस्यपापां मृध्र अपाम् । नपात् । यः । ऊर्मिः । हविष्यः । इन्द्रियावानितीन्द्रिय-वान् । मदिन्तमः । तम् । देवेभ्यः । देवत्रेत देव-त्रा । धत्त । शुक्रम् । शुक्रपेभ्य इति शुक्र-पेभ्यः । येषाम् । भागः। स्थ । स्वाहा । 'काऋषिः । असि । अपेति । मूर्मि देवरा देवेषु धत्त स्थापयत । किमर्थं ? देवेभ्यः देवार्थ देवानामेवोपभोगार्थम् । 'देवमनुष्यपुरुष' इत्यादिना त्राप्रत्ययः । पढा-देवाधीनं धत्त देवानामेवोपभोगार्थम् । 'देये त्रा च ' इति त्रापत्ययो दधातियोगेपि भवति, देवयागार्थमस्मभ्यं धत्तेति यावत् । पुनश्च विशेष्यते---शुक्र सोमं सोमीभविष्यन्तम् । केभ्यः ? शुक्रपेभ्यः देवानां मध्ये ये शुक्रपास्सोमपास्तेभ्यः । पुनश्च देवा विशेष्यन्ते हे आपः येषां देवानां यूयं भागस्स्थ भागभूता भविष्यथ तेभ्यो धत्तति । स्वाहा स्वाहुतं चेदं युष्मम्यमाज्यमस्तु । 'आहुत्यैवैना निष्क्रीय गृह्णात्यथो हविष्कृतानामेवाभिघृतानां गृह्णाति'* इति ब्राह्मणम् । भागशब्दः 'कर्षात्वतः ' इत्यन्तोदात्तः ॥ मैत्रावरुणचमसेनाहुतिं प्लावयति-कार्षिरसीति ॥ हे आज्य
*सं. ६-४-३.
For Private And Personal Use Only