________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भाभावस्मायोपेता
343
व रोह मा भेर्मा सं विस्था मा त्वा
हिसिषं प्र॒जास्त्वमुपावरोह पूजाराजन् । एति । इहि । अवेति । रोह । मा । भेः। मा । समिति । विक्थाः। मा। त्वा । हिसपम् । प्रजा इति प्र-जाः । त्वम् । उपावरोहे
एहि आगच्छ • मम हस्तम् । अत्र सोमराजन्नित्यारन्य मन्त्रान्तरम् । यथाह भगवान्-" हृदे त्वा मनसे त्या मोम रामोद्यव रोहेति द्वाभ्याम् ” इति । ततश्चापदात्परत्वात्सोमशब्दो न निहन्यते । ' नामन्त्रिते समानाधिकरणे' इति तस्याविद्यमानवस्त्वनिषेधाद्राजनिति निहन्यते । आगत्य च मम हस्तं हविर्धानादवरोह । अवरोहंश्च मा भेः मा च भैषीः मामयं भेत्स्यतीति । 'बहुळं छन्दसि' इतीडभावः, व्यत्ययेन सिचिवृद्धिर्न क्रियते । मा संविधाः मा च कम्पिष्ठाः । कस्मादित्याह-मा खलु त्वामहं हिंसिषम्, यागसाधनत्वापच्या उत्तमा गतिस्त्वया प्राप्स्यत इति । का पुनस्सोत्तमा गतिरित्याह-प्रजास्सर्वा दैवीर्मानुषीश्च उपावरोह अनुप्रविश । प्रजाश्च त्वामुपावरोहन्तु अनुप्रविशन्तु । अतस्सर्वासामेव प्रजानामाधिपत्ये वर्तितुमारभसे । स कथं मया हिंस्यसे? अतो मा भैषीरिति । अत्र कृधि यच्छेति । तिविभक्ती ; तत्र कधि यच्छेति चार्थस्य गम्यमानत्वात् 'चादिलोपे विभाषा' इति प्रथमा तिड्डिभक्तिनिहन्यते; एवं मा च भेर्मा च सं विस्थाः इत्यत्र तेनैव सूत्रेण प्रथमा तितिभक्तिर्ननिहन्यते; एहि चावरोह च इत्यत्रापि प्रथमायास्तेन निघातः प्रवर्तत एव ।
For Private And Personal Use Only