________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
तैत्तिरीयसंहिता
[का १. प्र. १.
अग्रेगुवोऽयं इमं यज्ञं नय॒ताने यज्ञप॑तिं धत्त युष्मानिन्द्रो वृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षिता स्था नये वो जुष्टं प्रोक्षाचाग्रे धत्त यजमानानामग्रगण्यं कुरुत । 'पत्यावैश्वर्ये' इति यज्ञपतौ पूर्वपदप्रकृतिस्वरत्वम् । किं हि नाम भवतीनामशक्यमित्याह युष्मानिति । युप्मान्खल्विन्द्रो वृत्रतूर्ये वृत्रवधार्थसङ्ग्रामे अवृणीत वृणीतवान् । यूयमपीन्द्रं वृत्रतूर्ये अवृणीध्वं वृतवत्यः । युष्माकमिन्द्रो यूयं चेन्द्रस्य सहाया इति स्तुतिः । वृत्रस्तूर्यते हिंस्यतेऽस्मिन्निति वृत्रतूर्य युद्धम् । तुर्वी त्वरणहिंसयोः , 'हन्त्य
र्थाश्चं' इति चुरादिपाठात् स्वार्थिकण्यन्तात् 'अचो यत्' इति यत् ।' यतो नावः ' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् तेन । ' वृत्र ह हनिप्यन्निन्द्र आपो वव्रे '* इत्यदि ब्राह्मणम् ॥ __ प्रोक्षणीः प्रोक्षति—प्रोक्षितास्थेति ॥ स्वत एव शुद्धा यूयं शुद्धाः पति मन्त्रोच्चारणमेवासां प्रोक्षणम् । 'अद्भिर्येव हवीषि प्रोक्षति ब्रह्मणापः + इत्यादि ब्राह्मणम् । 'प्रोक्षितास्थेत्याह । तेनापः प्रोक्षिताः '* इति च । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ __'पुरोडाशीयान् प्रोक्षति-अग्नय इति ॥ अग्रचर्थं युष्मान्प्रोक्षामि आद्भिस्सिञ्चामि । जुष्टं प्रियं यथा भवति तथा सिञ्चामि । 'नित्यं मन्त्रे' इति जुष्टशब्द आधुदात्तः । अनीषोमाभ्यामित्यत्र 'वो जुष्टं प्रोक्षामि' इत्यनुषज्यते । 'देवताद्वन्द्वे च ' इति युगपत्स्वरः ॥ *बा.३-२-५.
सिं.२-६.५.
For Private And Personal Use Only