________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भटभास्करभाष्योपेता
म्यग्नीषोमाभ्या५ 'शुन्धध्वं दैव्या॑य कर्मणे देवय॒ज्याया अवधूत५ रक्षोधूता अतयोऽ 'दित्यास्त्वगति प्रति त्वा ॥ ७ ॥
पृथिवी वैत्त्वषिर्वणमसि वानस्पत्यं प्रति
पात्राणि प्रोक्षति-शुन्धध्वमिति । गतम् ।
कृष्णाजिनमवधूनोति-अवधूतमिति यजुरादिकयैकपदया गायत्र्या ॥ अवधूतं विनाशितम्। । शिष्टं व्यख्यातम्। प्रत्युष्टादि मन्त्रण । ' गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ।।
'कृष्णाजिनमवस्तृणाति-अदित्या इति ॥ अदितिः अखण्डनीया । कणि क्तिन् , अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अखण्डितायाः पृथिव्यास्त्वगिव प्रियतममसि, अतस्त्वामास्तीर्णा पृथिवी प्रतिवेत्तु आत्मन उपरि तवावस्थानमनुजानातु, न न्यक्कारयतु । सा तु माऽवमस्त । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥
'उलूखलमध्यूहति—अधिषवणमिति ॥ अधिषूयते आभिपीड्यते अवहन्यतेऽस्मिन्निति सुनोतेरधिकरणे ल्युट , ' उपसर्गात्सुनोति' इत्यादिना षत्वम् , कदुत्तरपदप्रकृतिस्वरेण लिति प्रत्ययात्पूर्वस्योदात्तत्वम् । वनस्पतेर्विकार इति पत्युत्तरपदलक्षणो ण्यः । ईदृशं महाभागं त्वमसि । तस्मात् अदित्यास्त्वम्भूतं कृष्णाजिनं त्वां प्रतिवेत्तु अनुजानातु । आत्मोपरि तवावस्थानं क्षमताम् ॥
*सं. १.१.३1.
ख.-शोधितम्
सं. १-१-२३
For Private And Personal Use Only