________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ५.]
भट्टभास्करभाष्योपेता
27
'देवो वस्सवितोत्नावच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभि रापो देवीरग्रेपुवो
अप उत्पुनाति–देवो व इति गायत्रया । 'सावित्रियर्चा '* इति ब्राह्मणम् । हे आपः देवस्सविता सर्वस्य प्रेरकः, वः युष्मान् उत्पुनातु उर्ध्व शोधयतु । अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन छिन्नं छिद्रमतोन्यदच्छिद्रं अविच्छेदेन वर्तमानं । अव्ययपूर्वपदप्रकृतिस्वरत्वं । 'पुवस्संज्ञायाम् ' इति पुनातेरित्रप्रत्ययः । 'असौ वा आदित्योच्छिद्रं पवित्रम् '* इत्यादि ब्राह्मणम् । वसोर्जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धिहेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, स च निदवे । ' यद्दभैरैंप उत्पुनाति' 'द्वाभ्यामुत्पुनाति ' * इति प्राप्तयोर्दर्भयो। रादित्यात्मना मण्डलरश्मितया च स्तुतिः ॥
__ "उन्महयन्नुपोत्तिष्ठति-आप इति ॥ हे आपः । आमन्त्रिताधुदातत्वम् । उत्तरेषामामन्त्रितानामाष्टमिकं सर्वानुदात्तत्वम्, 'विभाषितं विशेषवचने बहुवचनम् ' इति पूर्वस्य विद्यमानत्वात् । हे देवीः देवनगुणयुक्ताः । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । हे अग्रेपुवः भस्मादेश्शुद्धिकारणात् प्रथममेव वस्तूनां शोधिकाः । क्विपि ' तत्पुरुषे कृति बहुळं ' इत्यलुक् । हे अग्रेगुवः प्रथमं स्नानकाल एव यागसाधनत्वं गच्छन्त्यः । 'उङ् च गमादीनामिति वक्तव्यम्' इति क्वौ अनुनासिकलोपः ऊकारश्च । ईदृश्यो यूयमिमं प्रस्तुतं यज्ञमग्रे नयत यज्ञानामग्रं प्रापयत । यज्ञपति यजमानं
*बा.३-२-५.
ख-इति हस्तयोरुभयो.
For Private And Personal Use Only