________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
26
तैत्तिरीयसंहिता
का. 1. प्र. १.
रिक्षमन्वि ह्यदित्यास्त्वोपस्थे सादया"म्यग्ने हव्य५ रक्षस्व ॥ ६॥ मा त्वा षट्चत्वारिशच ॥४॥
15 उर्वन्तरिक्षमन्विहि ' इति गमनमन्त्रो व्याख्यातः ॥
हविस्सादयति-अदित्या इति ॥ द्यतेः कर्मणि क्तिनि दितिः खण्डनीया, अदितिः .. अखण्डनीया एथिवी । ' इयं वा अदितिः ' इति दर्शनात् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तस्याः उपस्थे उत्सङ्गे त्वां स्थापयामीति स्तुतिः । उपस्थीयते अस्मिन्नित्युपस्थः । 'घअर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' इति घनर्थे कः । 'स्वाङ्गानामकुर्वादीनाम् ' इति द्वितीयमक्षरमुदात्तम् ॥
"गार्हपत्यमभिमन्त्रयते--अन इति ॥ हे अग्ने गार्हपत्य, इदं हव्यं हवनाय निरुप्तं रक्षस्व । व्यत्ययेनात्मनेपदम् । 'छन्दसि च' इति यः ॥
इति चतुर्थोनुवाकः.
*सं. १-१-२18.
वा. ३-२०४. । अत्र सर्वेष्वेव ‘यः' इत्येव पाठोस्ति । तत्र च 'दण्डादिभ्यो यः' इति पूर्वसूत्रात् ‘यः' इत्यनुवर्तते इति भावः । मनोरमादौ तु — दण्डादिभ्यो यत्' इत्यव पूर्वसूत्रपाठ इति भाष्यानुसारात्साधितम्. .
For Private And Personal Use Only