________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
389
हविष्मतीरिमा आपो हविष्मान्दे
वो अध्वरो हविष्मा आ विवास'हविष्म॑तीः । इमाः । आपः । हविष्मान् । देवः । अध्वरः । हुविष्मान् । एति । विवासति ।
___ 'वसतीवरीPह्णाति-हविष्मतीरिति चतुष्पदया ॥ ' अनुष्टुभा गृह्णाति '* इत्यादि ब्राह्मणम् । इमा वसतविरसिंज्ञा आप हविष्मतीः हविष्मत्यः हविषा सोमेन संस्कार्येण तद्वत्यः सोमसंस्कारकारका इत्यर्थः । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । एताभिश्च सोममनुप्रविश्य स्वयमपि हविष्वमापन्नाभिर्हविष्मानस्तु । देवो देवनादिगुणोध्वरो यागः, हिंसकरहितत्वात् । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यहा~यागेनाराध्यो देवस्सर्वविजयी हविष्मानस्तु । 'अनुदात्ते च कुधपरे' इति संहितायां देवो इति प्रकृत्या भवति । ततश्चानेनैव प्रकारेण यजमानोपि हवि. प्मान्सन् आविवासति आविवासतु परिचरतु देवान् । 'आतोऽटि नित्यम् ' इति संहितायां नकारस्य रुत्वम् , ' अत्रानुनासिकः पूर्वस्य तु वा', 'अनुनासिकात्परोनुस्वारः । तदर्थ मेताभिर्गृह्यः माणाभिः हविष्मान्भगवान् सूर्योस्तु । एतासां हविष्ट्वसम्पादनाय यावद्हणमस्तं नेयादित्यर्थः । 'यस्यागृहीता अभि निम्रोचेत् '* इत्यादि ब्राह्मणम् । पूर्ववत्संहितायां रुत्वम् । 'देवा वै यज्ञमानीधे व्यभजन्त ततो यदत्यशिष्यत '* इत्यादि ब्राह्मणं समस्तोनुवाकः ।।
*सं. ६.४-२.
For Private And Personal Use Only