________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
330
तैत्तिरीयसंहिता
का. १.प्र.३.
मरिणन्न्वातस्य ॥ १८ ॥ त्वा
ध्रज्यै पूष्णो रह्या अपामोषधीश्रीणातु । आपः । समिति । अरिणन्न् । वातस्य। ॥ १० ॥ त्वा । ध्रज्यै । पूष्णः । र यै । अपाम् ।
यादिकः उदात्तेत् प्वादिः, तस्मात् 'छन्दसि लुङ्किटः ' इति लङ्, 'प्वादीनां द्वस्वः' इति द्वस्वत्वम्, 'भाभ्यस्तयोरातः' इत्याकारलोपः । अद्भिस्सङ्गतायां मयि के गुणाः ? इति चेदाह-वातस्य त्वा ध्रज्यै गमनाय । अशुष्कायां हि त्वयि यागनिर्वृत्त्या वातो गच्छति सदागतिर्भवतीत्यर्थः । तस्माद्वातस्य ध्रज्यैत्वामापस्समरिणन् इति । ध्रजध्रजि गती, तस्मात् 'इन् सर्वधातुभ्यः' इतीन्प्रत्ययः । किञ्च-पूष्णः आदित्यस्य रौ रंहणाय उदयाय । रहि गतौ, इदित्वान्नुम्, पूर्ववदिन्प्रत्ययः, उदात्तनिवृत्तिस्वरेण पूष्णो विभक्तिरुदात्ता । किञ्च-अपां चोषधीनां च रसं रोहिण्यै रोहणाय उत्पत्तये । 'प्रयै रोहिल्यै अव्यधिप्यै' इति निपात्यते । तस्माहातादिप्रवृत्तये अग्निस्त्वां श्रीणातु आपश्च त्वां समरिणन् इति । ' उडिदम् ' इत्यादिना अद्भयो विभक्तिरुदात्ता । ओषधिशब्दो दासीभारादित्वादाादात्तः । 'पार्थेन वसाहोमं प्रयौति मध्यं वा एतत्पशूनाम् '* इत्यादि ब्राह्मणम् । यहा-श्रीः श्रयणीया पार्श्वेन मिश्रयितव्यासि । 'विब्वचि' इत्यादिना श्रयतेः विपि दीर्घत्वम् । तस्मादाहवनीयोग्निस्त्वां श्रीणातु सेवतां भक्षयतु ।। श्रयतर्व्यत्य
*सं. ६.३.११.
खि, ग-भजताम.
For Private And Personal Use Only