________________
Shri Mahavir Jain Aradhana Kendra
अनु. १०. ]
www. kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
329
सखायोनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा॑ श्रीणा॒त्वाप॒स्सअव॑से । सखा॑यः । अन्विति॑ि । त्वा॒ । माता । पि॒तर॑ः । म॒द॒न्तु॒ । 'श्रीः । अ॒सि॒ । अ॒ग्निः । त्वा॒ ।
एतर्हि भवन्ति ' इति ब्राह्मणम् । तस्माद्देवत्रा यन्तं देवान्गच्छन्तम् । ' देवमनुष्यपुरुष ' इति त्राप्रत्ययः । सखायस्समानख्याना बन्धवः । ' समाने व्यस्सचोदात्तः ' इतीञ्प्रत्ययः । ते च मातरश्च पितरश्च त्वामनुमदन्तु अनुमन्यन्तामनुमोदन्तामिति यावत् । अहो ! अयमस्मत्सम्बन्धी पशुर्हवीरूपमापन्नो देवांस्तर्पयितुं याति, ततस्स्वयमपि देवो भविता, ततो वयमपि देवीभूय तेन सह स्वर्गे मोदितास्महे, ततस्सर्वं कुलमनुगृहीतं भवि - प्यतीति । तदेवाह — अवसे रक्षणाय तव चात्मनश्च । तृप्त्यर्थं वा, अवतिर्हि तृप्तौ च पव्यते । तस्मादसुन् । 'अनुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति ' * इति च ब्राह्मणम् । मदि हर्षे, दैवादिकः विकरणव्यत्ययेन शप् ॥
·
------
पार्श्वेन होमाथ वसां प्रयौति आलोडयति —— श्रीरसीति ॥ श्रीः श्रपणीया पचनीयासि हे वसे । पक्कं हि हूयते । आलोडनजन्मा विशेषः पाकः । श्रीम् पाके, कैयादिकः, तस्मात्सम्पदादिलक्षणः कर्मणि क्विप् । यत एवं तस्मात् अग्निरेव स्वयमागत्य त्वां श्रीणातु पाकविशेषशालिनीं करोतु यस्सर्वस्य पाकहेतुरिति भावः । किञ्च - तथा क्रियमाणां त्वां आपस्समरिणन् सङ्गच्छन्तु त्वा मा मुचन् मा शोषं गमन् इति । री गतिरेषणयोः
-
* सं. ६-३-११.
For Private And Personal Use Only