________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
328
तैत्तिरीयसंहिता
[का. १.५३.
HROAL
क्ष्माणों भवथ देवत्रा यन्तमव॑से सासमिति सं-सम् । एतु । विषुरूपा इति विषु-रूपाः। यत् । सलक्ष्माण इति स-लक्ष्माणः । भय । देवत्रोत देव-त्रा । यन्तम् ।
'प्राणापानावेव पशुषु दधाति' *इति ब्राह्मणम् । हे देव त्वष्टः । पादादित्वात्प्रथमं न निहन्यते । 'नामन्त्रिते समानाधिकरणे' इति तस्याविद्यमानत्वनिषेधावितीयं निहन्यत एव । भूरि सर्व संसमेतु सङ्गच्छताम् । ते त्वत्तः त्वत्प्रसादादिति यावत् । 'त्वाष्ट्रा हि देवतया पशवः' इति ब्राह्मणम् । एतदुक्तं भवति, यद्विकर्तने पश्वङ्गं विच्छिन्नमवशिष्टं। तत्सर्वं त्वया आईतया एकीकार्यमिति । एवं हि कृत्स्नन पशुना यागः कृतो भवति । 'प्रसमुपोदः पादपूरणे' इति समो द्विवचनम् । 'अनुदात्तं च ' इति द्वितीयस्यानुदात्तत्वम् । किञ्च हे पशो सर्वेपि यूयं विषुरूपा नानारूपा अतुल्यस्वरूपा अपि सन्त इदानीं सलक्ष्माणः समानलक्षणा हवीरूपेण वावदानरूपेण वा देवान् गच्छन्तस्तुल्यस्वरूपा यद्यस्माद्भवथ । तव खलु हविष्टापत्तौ सर्वेपि युष्मत्सम्बन्धिनः पशवो जात्यभेदात् हविस्स्वरूपास्सम्पद्यन्ते । 'समानस्य छन्दसि' इति सभावः । यहा-सह लक्ष्मणा वर्तन्त इति सलक्ष्माणस्सलक्षणोपेताः हविष्ट्वापत्त्या सर्वेपि यूयं भवथ। 'वोपसर्जनस्य' इति सहस्य सभावः, 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वम् । 'विषुरूपा ह्येते सन्तस्सलक्ष्माणः
*सं. ६-३-11.
क-यद्रिकर्तितव्यं पश्वकं विशि[श्लि]ष्टं.
क-सर्वल.
For Private And Personal Use Only