________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १..]
भाभास्करभाष्योपैता
327
अङ्ग अङ्गे वि बोभुव॒द्देव त्वष्टभूरि
ते स५समेतु विघुरूपा यत्सलअङ्ग अङ्ग इत्यङ्गे-अङ्गे । नीति । देध्यत् । ऐन्द्रः । अपान इत्यप-अनः । अङ्गेअङ्ग इत्यङ्गे-अङ्गे। वीति । बोभुवत् । देव । त्वष्टः । भूरि । ते ।
पशोरङ्गेअङ्गे सर्वेष्ववयवेषु निदेध्यत् नियमेनात्यर्थं ध्रियतां तिष्ठत्वित्यर्थः, ऐन्द्रत्वादेव । धीङ् आधारे, यङगन्ताल्लेट् , 'लेटोऽ डाटौ' इत्यडागमः, 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति गुणाभावः अलघूपधस्यापि बहुळवचनात् । यद्वा-लटश्शत्रादेशः। अस्त्विति शेषः । यहा-विकरणव्यत्ययेन शः, 'एरनेकाचः'. इति यणादेशः, 'इतश्च लोपः' । प्राणशब्द उक्तस्वरः । 'अङ्ग इत्यादौ च' इति संहितायां प्रकृतिभावः, आनेडितस्य ' अनुदात्तं च ' इत्यनुदात्तत्वम् । 'नन्ति वा एतत्पशुं यत्संज्ञपयन्ति '* इत्यादि ब्राह्मणम् । अपानः अधोवृत्तिर्वायुः । सोप्यन्द्रः ; 'ऐन्द्रोऽपानः '* इति च ब्राह्मणम् । सः अङ्गेअङ्गे अस्य पशोविबोभुवत् अत्यर्थं विभवतु तिष्ठत्विति यावत् । भवतेर्यङगन्ताल्लेडादि सर्व पूर्ववत् , 'भूसुवोस्तिङि' इति हि [तीह ?] यलगन्ते नास्ति [प्यस्ति?] । पूर्ववदपानशब्दोपि थाथादिस्वरेणान्तोदात्तः । एवं प्राणापानवत्त्वं पशोस्सम्पाद्यते । तेन सर्वेपि पशवः प्राणापानवन्तः कृता भवन्ति ।
*सं. ६-३.११.
For Private And Personal Use Only