________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
324
तैत्तिरीयसंहिता
[का. १. प्र. ३.
वी प्रोवीथामच्छिन्नो रायस्सुवीर
उर्वन्तरिक्षमन्विहि वायो वीहि ऊर्ध्वाथाम् । "अच्छिन्नः । रायः । सुवीर इति सु-वीरः। "उरु । अन्तरिक्षम् । अन्विति । इहि। "वायो इति । वीति । इहि । स्तोकानाम् ।
अधस्ताद्वपां परिवासयति-अच्छिन्न इति ॥ व्याख्यातम् ||
एति-उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । 'क्रूरमिव वा एतत्करोति यद्वपामुत्विदति । इत्यादि ब्राह्मणम् ॥ __"आहवनीयस्यान्तिमेष्वङ्गारेषु वपायै प्रतितप्यमानायै अधस्तादहिषोग्रमुपास्यति–वायविति ॥ हे वायो स्तोकानां वीहि स्तोकान्वीहि । 'क्रियाग्रहणं कर्तव्यम् ' इति सम्प्रदानत्वाच्चतुर्थ्यथे षष्ठी । वीहि विविधं गच्छ पृथक्प्टथक्सर्वान्स्तोकान्विभनेति यावत् । 'तस्माद्विभक्ता स्तोका अव पद्यन्ते' इति ब्राह्मणम् । प्रथमं स्तोकान्गृह्णाति, ततो वृष्टिरूपेण विसृजति, ततो महाजलेन विभ्राजति, ततस्तोकात्मना अवपद्यन्ते पृथिव्यामाप इति । एवं बर्हिरग्रदहनजन्मा वायुरामन्न्यते 'अयं वा एतत्पशूनां यद्वपापम् ', इत्यादि ब्राह्मणम् ॥
*सं. १-३.५०.
सं. १-१-२18.
सं ६-३-९.
For Private And Personal Use Only