SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता 328 नयामीषे त्वा घृतेन द्यावापृथिएनम् । अधमम् । तमः । नयामि । "इषे । त्वा । "घृतेन । द्यावापृथिवी इति द्यावा-पृथिवी । प्रेति । 1वपामुखिदति-इषे त्वेति ॥ इट् अन्नं, यजमानस्यैषणीयत्वात् । ' इच्छत इव ह्येष यो यजते '* इत्यादि ब्राह्मणम् ॥ यद्वा-कर्मसिद्धं स्वर्गादिकं कर्मनिवृत्तिं वा इच्छतीतीट् यजमानः, तदर्थं तस्याभिमतसिद्धयर्थं त्वामुत्खिदामीवि शेषः ॥ 1*वपया वपाश्रपण्यौ प्रोर्णोति-घृतेनेति ॥ हे द्यावाप्टथिवी द्यावाप्रथिव्यौ द्यावाप्रथिव्यात्मके वपाश्रपण्यौ । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । द्यावाप्रथिव्यात्मना वपाश्रपण्यौ स्तूयेते । यहा—द्योतनात् द्यौः । दिवेर्डिविप्रत्ययः । पृथुत्वात्प्टथिवी । प्रथेषिवन्प्रत्ययः । हे ईदृश्यौ वपाश्रपण्यौ घृतेन स्निग्धत्वावततुल्यया वपयात्मानं प्रोर्वाथां प्रकर्षणाच्छादयतम् । यद्वाघृतेन सलिलेन सर्वं जगत्प्रोर्वाथाम् । अथवा-द्यावाप्टथिव्यावेवोच्यते । हे द्यावाप्रथिव्यौ घृतस्थानीयया वपया वपाश्रपण्यौ प्रोर्वाथाम् । एवं वा-हे द्यावाप्टथिव्यौ घृतेन सलिलेन विश्वं प्रोर्वाथाम् । अनेन वपाश्रपण्याच्छादनेन आत्मानमेव प्रोर्खाथाम् । ' द्यावाप्टथिवी एव रसेनानक्ति '* इति ब्राह्मणम् ॥ 'दिवो द्यावा' इति द्यावादेशः ॥ *सं. ६-३-९. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy