________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता
321
चरित्राश्मयः ॥ १६ ॥ शमो
पंधीभ्यश्शं पृथिव्यै शमहोभ्यामोअद्भय इत्यत्-भ्यः ॥ १६ ॥ शम् । ओषधीभ्य इत्योषधि-भ्यः । शम् । पृथिव्यै । 'शम् । अहोभ्यामित्यहः-भ्याम् । ओषधे । त्रायस्व । एनम् ।
शुद्धाः अनेन क्षाळनेन भवन्तितिशेषः । शं सुखं शान्तिर्वा । शाम्यतेविच । अद्भय ओषदीभ्यः पृथिव्याश्च हेतुभ्यः, अस्य पशोश्शं भवत्विति शेषः । तादर्थ्य वा चतुर्थी, अबाद्यर्थ शमस्त्विति । 'उडिदम्' इत्यादिना अद्भयो विभक्तेरुदात्तत्वम् । ओषधिशब्दो दासीभारादिः, 'ओषधेश्च विभक्तावप्रथमायाम् ' इति दीर्घः । 'उदात्तयणो हल्पूर्वात् ' इति पृथिव्या विभक्तेरुदात्तत्वम् ॥ ___ अवशिष्टा दक्षिणतोनुष्टष्ठमपो निनयति-शमहोभ्यामिति ॥ अहोभ्यां अह्ना राच्या च हेतुभ्यां पृथिव्याश्शं भवतु । कुत एतत् ? तस्या अनन्तरप्रकृतत्वात् । ' अहोरात्राभ्यामेव एथिव्यै शुचं शमयति '* इति च ब्राह्मणम् । अहस्सहचरिता रात्रिरप्यहरित्युच्यते, तत एकशेषः । यद्वा-व्यत्ययेन विरूपयोरप्येकशेषः प्रवर्तते । ‘सा प्राणेभ्योधि पृथिवीम् '* इत्यादि ब्राह्मणम् ॥
1°वपाग्रहणदेशे प्राचीनाग्रं बहिनिदधाति-ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् + ॥ ... *सं. ६-३-९.
सिं. १-३-५७.
For Private And Personal Use Only