SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 तैत्तिरीयसंहिता [का. .. ३. वातैनास्य हविषस्त्मना यज़ सम स्य तनुवा भव वर्षीयो वर्षीयसि अस्य । हविर्षः । त्मना । यज । समिति । अस्य । तनुवा । भव । वर्षीयः । वर्षीयासि । यज्ञे। यजमानस्योपभोगाय प्रीतिपूर्वकं तस्मिन्वर्तध्वम् । अन्तरिक्षशब्देन पशोस्सुषिराणि श्रोत्रादीनीन्द्रियाण्युच्यन्ते; समुदायापेक्षमेकवचनम् । हे उरो विस्तीर्ण अन्तरिक्ष श्रोत्रादीन्द्रियसमुदाय त्वं सजूः समानप्रीतिर्भूत्वा । ' समानस्य छन्दसि' इति सभावः, 'ससजुषोः' इति रुत्वम् , 'त्रिचक्रादीनामन्तः' इत्युत्तरपदान्तोदात्तत्वम् । केन सजूः ? देवेन दीप्तिमता वातेन पशुप्राणेन । किञ्च त्मना आत्मना पशुक्षेत्रज्ञेन च सजूः । 'मन्त्रेष्षायादेरात्मनः ' इत्याकारलोपः । एवमाभ्यामपि सह त्वं • समानप्रीतिर्भूत्वास्य हविषो यज इदं पश्वात्मकं हविर्देहि यागार्थमिदानी सर्वेपि* यूयमनुनानीतेत्यर्थः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुळम् छन्दसि' इति षष्ठी । यनतिर्दानकर्मा । उरो इति पादादित्वान्निघाताभावे षाष्ठिकमामन्त्रितायुदात्तत्वम् । ' नामन्त्रिते समानाधिकरणे' इति तस्याविद्यमानवस्वनिषेधात्परमामन्त्रितं निहन्यते । किञ्च-अस्य पशोस्तन्वा शरीरेण सम्भव संयुज्यस्व । देवभूतस्याप्यस्य पशोश्शरीरं मा हिंसीः । अपि च-हे वर्षीयः प्रवृद्धतरश्रोत्रादीन्द्रियसमुदाय वर्षीयसि प्रवृद्धतरे यज्ञे यज्ञपति यजमानं धाः धारय अविधेन स्थापय । हविष्यमस्य अनुभावय *क-गार्थमिदं सर्वमपि. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy