________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपेता
315
wr
यज्ञे यज्ञप॑तिं धाःपृथिव्यास्सम्पृचः यज्ञप॑तिमिति यज्ञ-पतिम् । धाः । "पृथिव्याः ।
शीघ्रं यज्ञं निर्वतय । यहा-यज्ञफले स्थापय यागसाधनद्वारेण यजमानं यज्ञफलभानं कुरु । अथवा-अस्य हविषो यजेति पूर्व हविषः प्रार्थना कृता, अधुना तदेव हविरुच्यते-हे हविः अस्य पशोस्तन्वा सम्भव पौष्कल्येन सम्पद्यस्व । पुनरपि तदेवामन्त्र्यते-हे वर्षीयो हविः वर्षीयसि यज्ञ यागसाधनद्वारेण यज्ञपतिमविघ्नेन स्थापय । धा इति दधातेर्लेटि, 'बहुलं छन्दसि' इति शपो लुक् , 'इतश्च लोपः परस्मैपदेषु' इतीकारलोपः । तनुवेति ' तन्वादीनां छन्दसि बहुळम् ' इत्युवङादेशः । यज्ञपतिशब्द उक्तस्वरः॥
1"पशुनिहननस्थाने निहन्यमानाय बहिरुपास्यति-पृथिव्या इति ॥ प्रस्तरनिधाने व्याख्यातम् । अत्रैवं वा-पृथिवीसम्पर्कदोषात्परों रक्षेति । 'पृथिव्यास्सम्पृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्न हि तद्यदर्हिषि स्कन्दति । इति च ब्राह्मणम् । यहा-एथिवीसाम्पर्कादन्यान्पशूनूक्षेति ॥ ___1पनीमादित्यमुदीक्षयति-नमस्त आतानेति ॥ हे आतान आदित्य तुभ्यं नम इदमस्तु । आतन्वन्ति विस्तारयन्ति विश्वं ज-. गदित्यातानाः आदित्यरश्मयः । 'आदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति। इति ब्राह्मणम् , 'पश्चाल्लोका वा एषा प्राच्युदानीयते यत्पत्नी '' इति च । तनोतेरापत्पिचाद्यच् । __ *सं. १-१-२०
सिं-६-३-८.
For Private And Personal Use Only