________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.
भभास्करभाष्योपेता
313
था. रेवतीर्यज्ञपतिं प्रियधा विश
तोरौ अन्तरिक्ष सर्देवेन ॥१४॥ यज्ञप॑तिमिति यज्ञ-पतिम् । प्रियधति प्रियधा। एति । विशत । उरो इति । अन्तरिक्ष । सजूरिति स-जूः । देवेन ॥१४॥ वातेन । __"पशुमुदञ्चन्नीयमानमनुमन्त्रयते--रेवतीर्यज्ञपतिमिति यजुरादिकया उरो अन्तरिक्षेति पञ्चपदया रुद्रेशवसुमुनिस्वराक्षरया ॥ क्षीरादिरयिमन्तः पशवो रेवतीशब्देनोच्यन्ते । 'पशवो वै रेवतीः '* इति च ब्राह्मणम् । 'रयेर्मतौ बहुलम् ' इति सम्प्रसारणम् , 'संज्ञायाम् ' इति मतुपो वत्वम् , 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् , आमन्त्रितायुदात्तत्वम् । अवयवेषु समुदायशब्दस्तद्धर्मश्चोपर्यते । हे रेवतीः रयिमन्तः पश्ववयवाः, यज्ञपतिं यजमानं, प्रियधा प्रियं धारयन्त्य आविशत यजमानस्य यागसिद्धयर्थ अवदानात्मना प्रीतिपूर्वकं तिष्ठत । प्रियं दधातीति दधातेः 'आतोनुपसर्गे कः' इति कः, टाप् , कृदुत्तरपदप्रकृतिस्वरत्वम् , ' सुपां सुलुक्' इति जसो लुक् । यहा—प्रियधा प्रियस्य धारणेन आविशत प्रियं धारयित्वैव यजमाने तिष्ठत । प्रियस्य धानं प्रियधा । तृतीयैकवचने आतो लोपे उदात्तनिवृत्तिस्वरत्वम् । यद्वा-व्यत्ययेन असङ्ख्याया अपि विधार्थे धाप्रत्ययः । प्रियप्रकारेणेत्यर्थः । यज्ञदेवता वा यज्ञपतिस्तां प्रीतिपूर्वकं भक्ष्यत्वेन सयुग्भावेन वा आविशत । यहा-सर्वे पशव उच्यन्ते--अयमस्माकमेको हन्तुं नीयत इति उद्वेगं मा कार्ट ।
*सं. ६-३-६.
For Private And Personal Use Only