________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.].
www. kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
30%
भ॑वतम॒द्य न॑ः । अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑धिराज एषः ।
12
"अ॒ग्नौ । अ॒ग्निः । चरति॒ । प्रवि॑ष्ट॒ इति॒ प्र - वि॒ष्टा॒ः । ऋषी॑णाम् । पुत्रः । अ॒धि॒राज इत्य॑धि - रा॒जः ।
। ।
।
ए॒षः । स्व॒ना॒कृत्येति॑ स्वाहा - कृत्ये । ब्रह्म॑णा ।
12
"प्रहृत्य स्रुवेणाभिजुहोति — अग्नावनिरिति चतुष्पदया विष्टुभा ॥ अनौ आहवनीये प्रविष्टो मथित्वा तत्र प्रहृतोयमनिश्चरति चरतु भक्षयतु इदमाज्यम् । 'प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधाति ' * इति च ब्राह्मणम् । चरतेः पञ्चमो लकारः । प्रविष्ट इति ' गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । ऋषयो ज्ञातारः ऋत्विजः । ऋषन्तीती ऋषयः, 'इगुपधात्कित् ' इतीन् वृषादिर्द्रष्टव्यः । तेषां पुत्रः; ते ह्येनं जनयन्ति । अधिराज एषः अधिकं राजत इत्यधिराजः । पचाद्यच् कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा -- अध्यारूढो राजा अधिराजः दीप्तिमतामुत्तमः । ' राजाहस्सखिभ्यष्टच् ' । स्वाहाकृत्य स्वाहाकारं कृत्वा । यद्वास्वाहुतिस्स्वाहेति जुहोतेस्स्वादुपसृष्टादौणादिको डाप्रत्ययः । ब्रह्मणा मन्त्रेण शोभनामाहुतिं कृत्वा, इमामाज्याहुतिं ते तुभ्यं जुहोमीति । स्वाहाशब्दस्योर्यादित्वाद्गतिसंज्ञा । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा-ब्रह्म बृहत् इदमाज्यं जुहोमि । 'तृतीया च होश्छन्दसि' इति तृतीया । त्वं च तथा हुतस्सन् देवानां भागधेयं भागं मिथुया मा कः मिथ्या मा कः मा कार्षीः ; मिथ्याकरणं स्तेयम् ।' मन्त्रे घस' इत्यादिना च्लेर्लुक् । 'भागरूपनामम्यो
*सं. ६-३-५
For Private And Personal Use Only