SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1806 तैत्तिरीयसंहिता का. १. प्र. ३. कसावरेपसौं । मा यज्ञ हिसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ ओकसौ । अरेपसौं । मा। यज्ञम् । हिसिष्टम्। मा। यज्ञपतिमिति यज्ञ-पतिम् । जातवेदसाविति जात-वेदसौ । शिवौ । भवतम् । अद्य । नः । मथित्वा प्रणीयते, हे तो द्वावनी भवतं भूयास्तं नः अस्माकं समनसौ समानमनस्कौ अविप्रतिपन्नमनस्कौ । 'समानस्य छन्दसि' इति सभावः । समोकसो सहसमवेतौ समाननिवासाविति यावत् । उच समवाये, सम्पूर्वादसुन्प्रत्ययः, बहुलवचनात्कुत्वम् । समुच्येते इति समोकसौ । 'गतिकारकयोरपि पूर्वपदप्रकृतिवरत्वं च' इति पूर्वपदप्रकृतिस्वरत्वम् । यहा-सम्शब्दस्य समानार्थवृत्तेर्बहुव्रीहिः । सम्भावो वा समानस्य छान्दसः । अस्पसौ अपापौ पापाभिनिवेशरहितौ । ' नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यस्मादरेपसौ तस्माद्यज्ञमिमं मा हिंसिष्टम् । मा च यज्ञपतिं यजमानम् । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । हे जातवेदसौ जातप्रज्ञानौ जातधनौ वा । वेत्तेविन्दतेर्वा असुन् । यहा-जातं विश्वं वित्तो विन्दत इति वा कारकपूर्वादसुन्, पूर्ववत्प्रकृतिस्वरत्वम् , इह तु आष्टमिकमायुदात्तत्वम् । तादृशौ युवां अद्य अस्मिन्कमकाले नः अस्माकं शिवौ शान्तौ भवतम् । 'सद्यः परुत् ' इत्यत्र इदमोद्यशब्दो निपात्यते । 'अग्निः पुरा भवत्यनिं मथित्वा प्र हरति '* इत्यादि ब्राह्मणम् ॥ *सं. ६.३-५, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy