________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु.७.]
भभास्करभाष्योपेता
303
सु रण्व रेवती रमध्वमग्नेर्जनि
त्रैमसि वृषणौ स्थ उर्वश्यस्यारव । रेवतीः । रमध्वम् । अग्नेः । जनित्रम् ।
असि । वृषणौ । स्थः । उर्वशी । असि । आयुः। मामन्त्रितायुदात्तत्वम् , तस्याविद्यमानत्वाद्रमध्वमिति न निहन्यते, अदुपदेशालसार्वधातुकानुदात्तत्वे धातुस्वरः । यूयमपि रमध्वम् अस्मिन्यजमाने अनुरक्ता भवध्वम् । अस्मत्सम्बन्धिपशुरनेन हिंस्यत इति युष्माकं विरतिर्माभूदित्यर्थः ॥
अधिमन्थनशकलं निदधाति-अग्नेर्जनित्रमसीति ॥ अग्नेर्जनित्रं जनकं प्रजननस्थानीयमसि हे शकल । 'अशित्रादिभ्य इत्रोत्रौ' इति जनेरित्रप्रत्ययः ॥ __'वृषणावन्वञ्चौ निदधाति-वृषणौ स्थ इति ॥ हे शकलौ वृषणौ वृषणस्थानीयौ यागस्य युवां स्थः । यागद्वारेण वा वर्षितारौ कामानां स्थः । 'कनिन्युवृषि' इत्यादिना वृषेः कनिन्प्रत्ययः । वृषणशब्दाद्विवचने ‘वा षपूर्वस्य निगमे' इति दीर्घाभावः ॥
अरणी आदत्ते अधरोत्तरौ क्रमेण-उर्वश्यस्यायुरसि पुरूरवाः इत्येताभ्याम्, यथाहुः-'उर्वशीत्यधरारणिमादत्ते, पुरूरवा इत्युत्तरारणिम् ' इति ॥ हे अधरारणे उर्वश्यसि । 'घृतेनाक्ते'* इत्यादिनिदर्शनात्त्रिलिङ्गोप्यरणिशब्दश्छन्दसि । उरु महान्तमस्याधारत्वेनाश्नुते व्यामोतीत्युर्वशी । अश्नुतेः कर्मण्यण , 'संज्ञा
*सं. १-३-७४
-
For Private And Personal Use Only