________________
Shri Mahavir Jain Aradhana Kendra
302
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
वसूनि हव्या ते स्वदन्तां देव त्वष्टृर्व
ह॒व्या । ते॒ । स्व॒द॒न्ताम् । देव॑ । त्व॒ष्टुः । वसु॑ ।
1
I
वसूनि धनानि पशुलक्षणानि यजमानार्थं धारय । ' ब्रह्म ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनवरुन्धे '* इति ब्राह्मणम् । यहा — ब्रह्मा बृहस्पतिः । हे ब्रह्मन् अवदानलक्षणानि वसूनि धनानि धारय अवधारयेत्यर्थः । ब्रह्मा हि कर्मणामध्यक्षः । आमन्त्रितस्याविद्यमानत्वात् धारयेति न निहन्यते, 'अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । हे पशो ते तव हव्या हव्यान्यवदानलक्षणामि । ' शेश्छन्दसि बहुलम् ' इति लुक् । स्वदन्तां स्वादूनि भवन्तु । ध्वद आस्वादने अनुदात्तेत् भौवादिकः । देव त्वष्टः । ' नामन्विते समानाधिकरणे ' इति पूर्वस्याविद्यमानत्वनिषेधाद्वितीयं निहन्यते । त्वमपि क्षीरादीनां सर्वेषां वासहेतुं पशुलक्षणं धनं रण्व रमय सर्वेषां स्पृहणीयरूपं कुरु । ' त्वष्टा वै पशूनां मिथुनानां रूपकृद्रूपमेव पशुषु दधाति * इति ब्राह्मणम् । रवि गतौ इदित्वान्नुम् इह त्वयं रमत्यर्थे वर्तते । यद्वा-वसु वरिष्ठं रूपं रण्व रमय । पशूवरिष्ठं हि वासयति । ' शृस्टष्णिहि ' इत्यादिना वसेरुप्रत्ययः, निदिति तत्रानुवर्तते । यहा— पशुलक्षणं धनं यजमाने रण्व रमय स्थिरीकुरु । यजमानं वा प्रापय । हे रेवतीः रेवत्यः क्षीरादिधनवत्यः पशवः । ' पशवो वै रेवतीः पशूनेवास्मै रमयति ' इति ब्राह्मणम् । रैशब्दान्मतुपि ' रयेर्मतौ बहुलम् ' इति सम्प्रसारणम्, 'संज्ञायाम् ' इति मतुपो वत्वम्, षाष्ठिक
"
*सं॰ ६-३-६०
For Private And Personal Use Only
[का. १. प्र. ३.
"