________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. ७.]
Acharya Shri Kailassagarsuri Gyanmandir
भास्करभाष्यो पैता
प्रागुर्वह्नरु॒शिजो॒ बृह॑स्पते धा॒रयो॒
। ।
।
इति॑ । दे॒वान् । देवः । विश॑ः । प्रेति॑ । अ॒गुः | वह्नः । उ॒शिज॑ः । बृह॑स्पते । धा॒रय॑ । वसू॑नि ।
सीत्यर्थः । ' उप नानाकरोति '* इति च ब्राह्मणम् । तत्र हि देवानां समीपे आभिमुख्येनैनान् पशून्करोति । जातावेकवचने बहुवचनम् । तस्मात्वदीया अवयवा अवदानभावमापन्ना देवाननीषोमादीन् उपप्रागुः उपप्रयन्तु प्रकर्षेणोपगच्छन्तु । उपो इति निपातसमुदाय उपशब्दस्यार्थे वर्तते । ' छन्दास लुङिटः' इति लुङ्, ' इणो गा लुङि' इति गादेशः, 'गातिस्था ' इत्यादिना सिचो लुक् । कथम्भूता इत्याह — दैवीर्विशः देवानामिमा दैव्यः । ' देवाद्यत्रञौ ' इत्यञ्, ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । विशः प्रजाः दैव्यः प्रजा भूत्वा देवानुपगच्छन्त्वित्यर्थः । ' दैवीता विशस्सतीर्देवानुपयन्ति ' * इति च ब्राह्मणम् । यद्वा दैवीर्विशः इति द्वितीया, देवान्दैवीश्व विशः उपगच्छन्तु । किञ्च वह्नीरुशिजः यज्ञस्य वोढारः ऋत्विजो वह्नयः । ' वहिनिश्रुयुगुग्ला' इत्यादिना वहेर्निप्रत्ययः, निदिति हि तत्रोच्यते, ( तस्माच्छसो नः " इति नत्वं न क्रियते ' सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति । उशिजः कामनावन्तः भक्षणरुचयः । यद्वा - कमनीयाः स्टहणीया इत्यर्थः । शेषभक्षणादिना तानप्युपगच्छन्तु । ' ऋत्विजो वै वह्नय उशिजः * इत्यादि ब्राह्मणम् । ' वशेः किच्च ' इति वष्टेरिजिप्रत्ययः । अतः परं विराडेकपदा । हे बृहस्पते त्वमपि
—
*सं. ६-३-६.
For Private And Personal Use Only
301
*41