________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4304
तैत्तिरीयसंहिता
[का. १. प्र. ३.
युरसि पुरूरवा घृतेनाक्ते वृषणं दधाअसि । पुरूरवाः । 'घृतेन । अक्ते इति । वृषणम्।
पूर्वको विधिरनित्यः' इति वृद्धिर्न क्रियते । यहा--परोक्षवृतयेदमुच्यते । यथा 'तं वा एतं षडतं सन्तं । षड्ढोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः '* इति । 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाधुदात्तत्वम् ॥
अथोत्तरारणिमादत्ते-आयुरसीति ॥ एति विश्वं क्षणेन कर्मणा। इत्यायुः । आयन्ते प्राप्यन्तेभिमतानीति वा आयुः अग्निरुच्यते । 'छन्दसीणः' इत्युण्प्रत्ययः । तद्वती उत्तरारणिः आयुरुच्यते, 'आत्मा वै पुत्रनामासि' इति पितापुत्रयोरभेदेन निर्देष्टुं शक्यत्वात् । उर्वशीपुरूरवसोः आयुर्नामपुत्रो बभूव, तद्रूपेणारण्योरग्निस्स्वरूपेण वा क्रियते । तत्राधरारणिरुवंशी माता, उत्तरारणिः पुरूरवाः पिता, अग्रिरायुः पुत्र इति । 'उर्वश्यस्यायुरसीत्याह मिथुनत्वाय '' इति ब्राह्मणम् । तस्मात्पितापुत्रयोरैकशब्द्यम् । यहा-ईयतेनयामिरित्यायुः उत्तरारणिरग्रेरानयनहेतुरिति यावत् । तादृशी त्वमसि हे उत्तरारणे । अपि चपुरूरवाः पुरु बहु राति मन्थनवेळायां शद्वं करोतीति पुरूरवाः । पुरुपूर्वाद्रातेरसुनि उपपदस्य दीर्घत्वं निपात्यते पुरूरवा इति, कदुत्तरपदप्रकृतिस्वरत्वम् । 'परादिश्छन्दसि बहुलम् । इति वा उत्तरपदाद्युदात्तत्वम् ॥
'आज्यस्थाल्यामरणी समनक्ति-घृतेनेति त्रिष्टुभैकपदया ।। धृते*तै,बा, २-३-११. खि-आयुरसीति ॥विश्वंकणेन रक्षति. सं.६-३-५.
For Private And Personal Use Only