________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
299
भट्टभास्करभाष्योपेता
अनु. ६.]
परिवीरसि परि त्वा देवोर्विशो
व्ययन्ताम्परीम रायस्पोषो यजरायः । पोषम् । दृह । "परिवीरित परि-वीः। असि । परीति । त्वा । दैवीः। विशः। व्ययन्ताम्। परीति । इमम् । रायः । पोषः । यज॑मानम् ।
रशनया त्रिः प्रदक्षिणं परिव्ययति-परिवीरसीति ॥ परिवी यत इति परिवीः । 'अन्येभ्योपि दृश्यते' इति कर्मणि क्विप् , यजादित्वात्सम्प्रसारणम् , 'हलः' इति दीर्घः, कृदुत्तरपदप्रकृतिस्वरत्वम् । परितो रशनया वेष्टनीयोसि हे यूप । अतस्त्वां दैवीः दैव्यो विशः देवानां स्वभूताः प्रजाः मरुदादयः, 'मरुतो वै देवानां विशः '* इति । 'देवाद्यौ ' इति देवशब्दादञ् , ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । परिव्ययन्तां सर्वतोऽनया रशनया वेष्टयन्तु । इमं च यजमानं रायो धनस्य पोषः मनुष्याश्च परिवेष्टयन्तु, आब्यः प्रजानामुपजीव्यश्च भवत्वित्यर्थः । 'उडिदम्' इत्यादिना रैशब्दात् षष्ठया उदात्तत्वम् , 'षष्ठयाः पतिपुत्र' इति विसर्जनीयस्य सत्वम् , 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वे धातुस्वरेण यजमानशब्द आधुदात्तः । 'उग्दै रशना', इत्यादि ब्राह्मणम् ॥
*सं. २-२.५.
सिं. ६-३.४.
For Private And Personal Use Only