________________
Shri Mahavir Jain Aradhana Kendra
अनु. ६. ]
www. kobatirth.org
भास्करभाष्योपता
"
Acharya Shri Kailassagarsuri Gyanmandir
ग्रेगा नैतॄणां वन॒स्पति॒रधि॑ त्वा
इत्य॑ग्रे - गाः । ने॒तॄणाम् । वन॒स्पति॑ः । अधीति॑ ।
"
ग्रेगाः । ' यः प्रथमश्शकलः परापतेत्तमप्याहरेत् ' इति गृहीतत्वात् । यद्वा — नेतृणामग्रे गच्छतीत्यग्रेगाः, मुख्य इत्यर्थः प्रथमपतितत्वादेव । यद्वा — नेतॄणां मध्ये अग्रे गच्छति यागसाधनत्वं यूपादपि पूर्वमुपयुज्यमानत्वादवटप्रवेशेन । जनसनखनक्रमगमो विटू' इति विट्र्त्ययः, 'विङ्कनोरनुनासिकस्यात् ' इत्यात्वम्, ' तत्पुरुषे कृति बहुळम् ' इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यहा - यूपस्य ये नेतारः परिष्कर्तारः प्रथमशकलस्स्वरुश्चषालमिति, तेषां मध्ये अग्रे प्रथमं यूपं गच्छतीति । किञ्च – वनस्पतिविकारो यूपः, विकृतौ प्रकृतिशब्दः । पारस्करप्रभृतित्वात्सुट् ' उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । स त्वामधि स्थास्यति त्वयि स्थास्यति, यूपस्यापि धारकोसीत्यर्थः । ' अधिशीङ्खासां कर्म,' इत्याधारस्य कर्मसंज्ञा । तस्य वित्तात् तद्विजानीहि तं ते महिमा - नमवगन्तुमर्हसीति । ' क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वात् ' चतुर्थ्यर्थे बहुलं छन्दसि' इति चतुर्थ्यर्थे षष्ठी । ' यूपशकलमवास्यति स तेजसमेवैनं मिनोति' इति ब्राह्मणम् । स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापतति '* इत्यादिब्राह्मणेन तस्य तेजस्त्वमवगन्तव्यम् ॥
*सं—६०३-३.
+ख...स्वम् । तस्यत्वामन्त्रितत्वं व्यत्ययेन सुः । स.
सं—६-३-४.
293
For Private And Personal Use Only
#40