SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 तैत्तिरीयसंहिता का. १. प्र. ३. स्थास्यति तस्य वित्ताद्देवस्त्वा सविता मध्वानक्तु सुपिप्पलाभ्यस्त्वौ षधीभ्य उद्दिवई स्तभानान्तरिक्षत्वा । स्थास्यति । तस्य । वित्तात् । देवः। त्वा । सविता। मध्वा । अनक्तु । सुपिप्पलाभ्य इति सुपिप्पलाभ्यः । त्वा । ओषधीभ्य इत्योषधि-भ्यः। "उदिति । दिवम् । स्तभान । एति । अन्तरिक्षम् । यूपस्याग्रमनक्ति–देवस्त्वेति ॥ व्याख्यातम् ॥ 'चषालं प्रतिमुञ्चति--सुपिप्पलाभ्य इति ॥ व्याख्यातमेव । शोभनफलानामोषधीनामर्थाय त्वां चषालं यूपस्याग्रे प्रतिमुञ्चामीति शेषः । 'तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति ' इति ब्राह्मणम् ॥ - "यूपमुच्छ्रयति-उद्दिवमिति ॥ व्याख्यातम् । अतष्टः प्रदेश उपरः, ' मूलतोऽतष्टमुपरम् । इति । उपरमते तक्षणमस्मिन्निति ' उपसर्गे च संज्ञायाम् ' इति जनेर्विधीयमानो डप्रत्ययः बहुलवचनाद्रमेरपि भवति, कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरत्वम् , व्युत्पत्त्यनवधारणाच्च नावगृह्यते । तेन पृथिवीं ढंह दृढां कुरु ॥ सिं-१-२-२.14 *सं. १-३-५२ $सं. १-३-१.० सं. ६-३-४. पाआप. श्री. ७-३-१. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy