________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भट्टभास्करभाष्योपेता
23
हिसिष मुरुवााय दे॒वस्य॑ त्वा सवितुः प्रसर्वेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं
मा च संविक्थाः, इति चार्थस्य गम्यमानत्वात् • ' चादिलोपे विभाषा' इति प्रथमा तित्रिभक्तिर्न निहन्यते । गम्यमानार्थस्याप्रयोग एव लोपः । नन्ववघातादिना पीडां* कर्तुमारभते भवान्, तत्किमुच्यते मा भेरिति ; तत्राह-मा त्वा हिंसिषं, अवधातादिना न त्वामहं नाशयामि , किन्तु हविर्भूतं त्वां देवतायै सङ्कल्प्य, उछ्रितं स्थानं प्रापयामि । यथोक्तं :'यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युछ्रितं पदम् ' इति ॥
तृणानि निरस्यति-उर्विति ॥ वातार्थं वातप्रवृत्त्यर्थं उरु महद्भव । एतेनावारुणत्वं हविषः कृतं भवति । 'यद्वै किञ्च वातो नाभिवाति । इत्यादि ब्राह्मणम् ॥
निर्वपति-देवस्य त्वेति ॥ सवितुस्सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं त्वामनये अग्न्यर्थं जुष्टं प्रियं निर्वपामि निष्कृष्य शूर्प निक्षिपामि । 'थाथवक्ताजवित्रकाणाम् । इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । 'अश्विनौ हि देवानामध्व! आस्ताम् । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठया उदात्तत्वम् ॥
अग्नीषोमीयं निर्वपति-अग्नीषोमाभ्यामिति ॥ ‘देवताद्वन्द्वे ____*ग-हिंसा, ख, ग-समर्प्य. वा. ३-२-४.
For Private And Personal Use Only