________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
.
का. १. प्र. १.
देवानामसि सस्नितम पप्रितम जुष्टतमं वह्नितमं देवहूतममहुँतमसि हविर्धानं दृहस्व मा ह्वा मित्रस्य॑ त्वा चक्षुषा प्रेक्षे मा शेर्मा सं विस्था मा त्वा ॥५॥ तमं इदानीमसि । ष्णा शौचे ‘आढगम ' इत्यादिना किन् लिडच्च । पप्रितमं पूर्णतमं व्रीह्यादिभिः । प्रा पूरणे, स एव प्रत्ययः । जुष्टतमं प्रियतमं देवानां । 'नित्यं मन्त्रे' इत्यागुदात्तत्वम् । वह्नितमं वोदृतमं हविषाम् । 'वहिश्रिश्रुयुगुग्ला' इत्यादिना निप्रत्ययः । स च नित् । देवहूतमं देवानामाह्वाततममिवासि हविर्धारणेन । क्विपि, सम्प्रसारणे, 'हलः' इति दीर्घः, कदुत्तरपदप्रकृतिस्वरत्वम् । अद्भुतं अकुटिलं असि धृतिमत्तया 'दुहरेश्छन्दसि' इति हुभावः । हविर्धानं हविर्भूता ब्रीह्यादयो निधीयन्तेस्मिन्निति हविर्धानम् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । यतस्त्वमेवंविधस्तस्मादंहस्व । मा हारिति व्याख्यातम् ॥
"पुरोडाशीयान् प्रेक्षते-मित्रस्येति ॥ जगतां मित्रभूतस्य सर्वजगद्वन्धोरादित्यस्य चक्षुषा त्वां पुरोडाशीयसमूहं प्रेक्षे, नात्मीयेन । ततश्च त्वं मनुष्येण दृष्टोहमिति मा भेः मा भैषीः । 'बहुळं छन्दसि ' इतीडभावः । सिचि वृद्धिं बाधित्वा व्यत्ययेनान्तरङ्गो गुण एव क्रियते । 'संज्ञापूर्वको विधिरनित्यः' इति वा वृद्धयभावः । मा च संविक्थाः मा च कंपिष्ठाः । ओविजीभयचलनयोः, लुङि ‘लिङ्सिचावात्मनेपदेषु ' इति सिचः कित्वम् । 'झलो झलि' इति सिचो लोपः । अत्र मा च भेः
*सं. १-१-३३.
For Private And Personal Use Only