________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
282
तैत्तिरीयसंहिता
का. १. प्र. ३.
देवानामेति निष्कृतमृतस्य योनि
मासदमादित्यास्सदोस्यादैत्यास्सद वित् ॥ ६ ॥ देवानाम् । एति । निष्कृतमिति निः-कृतम् । ऋतस्य । योनिम् । आसदमित्यासदम् । अदित्याः । सदः । असि । 'अदित्याः।
विन्दतीति वा गातुवित् । क्विपि रुदुत्तरपदप्रकृतिस्वरत्वम् । ईडशोयं सोमो जिगाति गच्छति । गा स्तुतौ छन्दसि इति जुहोत्यादिकः उदात्तेत् , 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । इहत्वयं गतिकर्मा, गतिकर्मसु हि जिगातीति निरुक्तकाराः पठन्ति । कं देशं गच्छतीत्याह-देवानामिति । देवानामासदं, आ समन्तात्सीदन्त्यस्मिन्नित्यासदः । 'घअर्थे कविधानम् ' इति कः, 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । निष्कृतम लङ्कतम् । प्रबृद्धादेराकृतिगणत्वादुत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा योनिमुत्पत्तिस्थानं हविर्धानमेति प्रपद्यते । 'सौम्यर्चा प्र पादयति '* इत्यादि ब्राह्मणम् ॥
दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति-अदित्या इति ॥ अदितिर्देवमाता तस्यास्सदोस्यासनमसि । सीदन्त्यस्मिन्निति सदः ॥
"कृष्णानिने राजानमासादयति-अदित्या इति ॥ अदित्या. स्सदोभूतमेतत्कृष्णाजिनं हे सोम आसीद अधितिष्ठ । प्रागेवा व्याख्यातमिदं मन्त्रद्वयम् ॥ *सं. ६-३-२.
सिं. १-२-८.34
For Private And Personal Use Only