________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टभास्करभाष्योपेता
283
आ सौदेष वो देव सवितस्सोमस्त रक्षध्वं मा वो दक्षदेतत्त्व५
सौम देवो दे॒वानुपागा इदम॒हं मनुसदः । एति । सीद । एषः । वः । देव । सवितः। सोमः । तम् । रक्षध्वम् । मा । वः । दभत् । एतत् । त्वम् । सोम । देवः । देवान् । उपेति । अगाः । इदम् । अहम् । मनुष्यः । मनुष्यान् ।
है
राजानं देवताभ्यस्सम्प्रयच्छति-एष व इति ॥ हे देव सवितः सर्वस्य प्रेरक, एष सोमः वः युष्मभ्यं देवेभ्यो न्यासभूतः परिधीयते । यद्वा-युष्माकमेष सोमः, युष्मत्पानार्थत्वात् ; अतो युष्मभ्यमेव परिधीयत इति भावः । सवितुः प्राधान्यात्तन्मुखेन देवेभ्यः परिधीयते । तं च सोमं हे सवितः यस्त्वं ये चान्ये देवाः ते यूयं रक्षध्वम् । व्यत्ययेनात्मनेपदम् । रक्षतश्च युप्मान् कश्चिदपि हिंस्त्री मा दभत् मा हिंसीत् । दम्भेर्लुङि व्यत्ययेन च्लेरङ् । 'यजमानो वा एतस्य पुरा गोप्ता भवति'* इत्यादि ब्राह्मणम् ॥
राजानमुपतिष्ठते-एतत्वमिति ॥ एतत् एतस्मिन्काले । इदमित्यपि तथा । उभयत्र ‘सुपां सुलुक् ' इति सप्तम्या लुक् । हे सोम एतस्मिन्काले देवस्त्वं देवानुपागाः उपसंप्राप्तोसि । अस्मिन्कालेहमपि मनुष्यो मनुष्यानुपागाम् । क्रियाविशेषणं
*सं-६-३-२.
For Private And Personal Use Only