SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 280 तैत्तिरीयसंहिता [का. १. प्र. ३. यं मृधः पुर एतु प्रभिन्दन्न् । अय शत्रूञ्जयतु जहषाणोयं वाजे जयतु वाजसातौ। उरु विष्णो वि क्रमस्वोरु क्षयाय नः कृधि । घृतं पुरः । एतु । प्रभिन्दनिति प्र-भिन्दन्न् । अयम् । शत्रून् । जयतु । जर्हषाणः । अयम् । वाम् । जयतु । वाजसाताविति वाज-सातौ । 'उरु । विष्णो इति । वीति । क्रमस्व । उरु । क्षयाय । कृण्व्योरच ' इत्युप्रत्ययः । किञ्च-अयं मृधस्सङ्गामान् प्रभिन्दन प्रकर्षेण विनाशयन् पुरोग्रत एतु गच्छतु । ततश्चायमनिरस्माकं शत्रून् जयतु । जर्हषाणः जयेन भृशं दृष्टान्तःकरणः । हषर्यड्डगन्ताद्वयत्ययेनात्मनेपदम्, 'अभ्यस्तानामादिः' इत्याद्युदातत्वम् । किञ्च-अयमग्निर्वाजमन्नं जयतु अस्मदर्थमात्मवशं करोतु । क ? वाजसातौ । 'उतियूति' इत्यादिना निपातनात् सनोतेः कर्मणि क्तिन्, 'जनसन ' इत्यात्वम् । वाजो लभ्यते यस्मिन् तस्मिन् वाजसातौ* सङ्गामे वानं जयतु । वाजशब्दो वृषादित्वादाद्युदात्तः॥ 'आहवनीये खुवाहुतिं जुहोति-उरु विष्णो इति चतुष्पदयानुष्टुभा ॥ हे अग्ने विष्णो व्यापक । 'विषेः किच्च' इति नुप्रत्ययः । उरु विक्रमस्व महाविक्रमो भव सर्वत्राप्रतिहतो *ग-वाजाथै, - - For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy