SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 तैत्तिरीयसंहिता [का. १. प्र. ३. AN कृतेभ्य उरु यन्तासि वरूथ द्वेषोभ्य इति द्वेषः-भ्यः । अन्यकृतभ्य इत्यन्यकृतेभ्यः । उरु। यन्ता । असि । वरूथम् । स्वाहा । द्विषन्तीति द्वेषांसि । अन्यैर्दुरात्मभिरभिचारादिप्रवृत्तैः कृतान्यन्यकतानि । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । यानि शरीरमपि नाशयन्ति तेभ्यो रक्षःप्रभृतिभ्यो यन्ता तत्पीडापगमद्वारेण रक्षकः । हे सोम ईदृशस्त्वमेव खलु नः. उरु महत्वरूथं गृहं धनं वा, वरणीयत्वात् । 'जवृञ्जयामूथन् ' इत्यूथन्प्रत्ययः । धनानि लिप्समानो हि स्तुत्यं तद्रूपेण स्तौति ; तस्मान्महद्धनं मे देहीतिभावः । 'उरुणस्कृधीति वावैतदाह '* इति ब्राह्मणम् । ईदृशाय तुभ्यं स्वाहा सुहुतमिदमस्त्विति प्रदानार्थो निपातः । कथमत्र 'तनूकद्धयेषः '* इति ब्राह्यणमुपपद्यते ? उच्यते तनूकतामपि रक्षःप्रभृतीनामेष हि तनूकत् ; तस्मात्कमनेन कर्तुं न शक्यत इति प्रतिपाद्यते । यहा-करो. तेरेव विप् । तत्र हि बहवस्तनूकृतश्शरीरस्योत्पादयितारः । प्रजानां पिता रेतस्सिञ्चति प्रजनने । सोमस्सिक्तं रेतो दधाति, यथा--' सोमो वै रेतोधाः' इति । त्वष्टा वै रेतसस्सिक्तस्य रूपाणि विकरोतीति । अयमर्थ:-हे सोम त्वं खलु तनूकृद्भयोपि तनूकतोनुप्रविश्य स्थितोसि । अत्र प्रासादात्प्रेक्षत इतिवल्लयब्लोपे कर्मणि पञ्चमी । त्वमपि तनूकृतां मध्ये कश्चिदेक इत्यर्थः । यहा-'सुपां सुपो भवन्ति ' इति सोय॑सादेशः, यथा-'तनूरुद्धयेषः '* इति ब्राह्मणम् । यस्मादेवं तस्मादन्यै*सं-६-३-२. सिं-२-१-१. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy