________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
276
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
पा॒दह॑रसि बुनियो॒ो रौद्रेणानी॑केन
अ॒सि॒ । एक॑पा॒ादित्येकं॑ पा॒त् । " अहि॑ः । अ॒सि॒ ।
I
[का. १. प्र. ३.
नित्य इति यावत् । ' अन्येष्वपि दृश्यते ' इति डः, न ज्युपपदत्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा — अजन्ति गच्छन्त्य - स्मादाहवनीयादय इत्यजः । अज गतिक्षेपणयो:, ' घञर्थे कविधानम्' इति कः, बहुलवचनाद्विभावाभावः । ण्यन्ताद्वा पचाद्यच्, ' बहुलं संज्ञाच्छन्दसो : ' इति णिलुकू । आहवनीयादीनां गमयिता अजः । एकः पादोस्येत्येकपात् । ' सङ्ख्यासुपूर्वस्य ' इत्यन्तलोपस्समासान्तः, पूर्वपदप्रकृतिस्वरत्वम् ' इण्भीकाया इत्यादिना कन्प्रत्ययान्त एकशब्दः । एको हास्य पादो देवानां यष्टा देवयण्णामा, यथोक्तम् -' आ देवयजं वह ' इति । पद्यते प्रतिपद्यते हवींषीति पादः । ' पदरुजविशस्टशो घञ् ' इति घञ् । अनेरंशाः पादाः ' अपानेनिमामादं जहि निष्कव्यादं सेधा देवयजं वह '* इत्यंशान्तरनिवारणात् हव्यानां वोदुरेकपात्वम् ॥
"
" पुराणगार्हपत्यमुपतिष्ठते, यं प्रहास्यन्तो भवन्ति - अहिरसीति ॥ आगत्य हन्तीत्यहिः, अयं खल्वनिस्स्वकार्यं प्रत्यागत्य तद्विरोधिनमामादं हन्ति । यथा ' अपानेनिमामादं जहि ' * इति । ' आङि श्रिहनिभ्यां ह्रस्वश्च' इती ञ्प्रत्ययः, स च डित्, स च डित्, 'उदात्तश्च '
इत्यनुवृत्तेः कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा आङ उदात्तत्वं ह्रस्वत्वं च | अहिरसि यजमानस्याभिमतसम्पादनाय तावदागच्छसि, तद्विरोधिनश्च हन्सीत्यर्थः । यद्वा - न हन्तीत्यहि:, अहिंसकोसी
*. 9-9-192-4
For Private And Personal Use Only