________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपैता
275
ब्रह्मज्योतिरस सुवर्धामाजौस्येकतिरिति सुवः-ज्योतिः। "ब्रह्मज्योतिरिति ब्रह्मज्योतिः। अस।सुवर्धामेति सुवः-धामा। अजः।
निष्ठान्तोन्तोदात्तः । सुवः स्वर्ग आदित्यो वा । तत्रस्थं ज्योतिर्दीप्तिः यस्यास्सा सुवर्णोतिः, उच्छ्रितत्वात् । — सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च' इति समासः । 'न्यङ्करौ स्वरितौ' इति स्वश्शब्दस्स्वर्यते ॥
"ब्रह्मसदनमुपतिष्टते-ब्रह्मज्योतिरिति ॥ ब्रह्म ज्योतिर्दीप्तिर्यस्य स ब्रह्मज्योतिः धिष्ण्यः । 'बृम्हेर्नलोपश्च' इति मन्प्रत्ययान्तो ब्रह्मशब्दः । यहा-द्योतत इति ज्योतिः । 'द्युतेरिसिन्नादेश्च जः' इतीसिन्प्रत्ययः । द्योतमानो ब्रह्मा यत्र स ब्रह्मज्योति?तमानब्रह्मेति यावत् । आहिताग्न्यादित्वात्परनिपातः । ब्रह्मसदने हि ब्रह्मा द्योतते । स्वर्गाव*स्थानमिवावस्थानं यस्मिन् स सुवर्धामा । उपमानपूर्वपदस्य बहुव्रीहिसमासः । यद्वासुष्टु अर्य ते गम्यत इति स्वः । अतैर्विचि गतिसमासः । सुखमुच्यते, सुखनामसु हि ‘सुवः सुखम् ' इति निरुक्तकाराः पठन्ति । सुखं धाम स्थानं यत्र तादृशं, तत्र हि ब्रह्मा सुखमास्ते ॥
अत्रैव तिष्ठन् गार्हपत्यमुपतिष्ठते-अजोसीति ॥ जायन्ते उत्पद्यन्तस्मादाहवनीयादय इत्यजः । ‘जनेर्डश्च ' इति जनेर्डप्रत्ययः, टिलोपः, धातोश्वाडागमः । यद्वा-न जायत इत्यजः, *तं-सुवः स्वर्ग इव धाम. क-ढे ढोद्वेति. तं-'जनेोंडा' इति.
For Private And Personal Use Only