________________
Shri Mahavir Jain Aradhana Kendra
274
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
प्र॒तक्का॑सि॒ नभ॑स्व॒नस॑म्म॒ष्टोसि हव्य॒सूद॑ ऋ॒तद्या॑मसि॒ सु॒व॑ज्र्ज्योति॒
[का. १. प्र. ३.
11
12
I
" प्र॒तक्केति॑ प्र-तक् । अ॒सि॒ । नभ॑स्वान् । " असे - म्मृष्ट॒ इत्यसै—मृ॒ष्टुः । अ॒सि॒ । ह॒व्य॒सू द॒ इति॑ हव्य - सूर्द: । "ऋ॒तामेत्यृत - धामा । अ॒सि॒ । सुव॑ज्यो॑
1
1
13
-
,
"चात्वालमुपतिष्ठते — प्रतक्वेति ॥ तकतिर्गतिकर्मा । प्रकृष्टं गतिर्गमनं प्रतक् । तत्र हि ऋत्विग्यजमाना बहि* मर्जिनार्थं गच्छन्ति । तदस्यास्तीति प्रतक्का | 'छन्दसीवनिपौ ' इति वनिप् प्रत्ययः, कृदुत्तरपदप्रकृतिस्त्ररत्वम् । यद्वा —— प्रकर्षेण गच्छन्ति ऋत्विग्यजमाना इति प्रतक्का । ' अन्येभ्योपि दृश्यन्ते' इति वनिप्प्रत्ययः । नभस्वान् उद्धृतपुरीषत्वेनावकाशवान् ॥
"पशुपणमुपतिष्ठते - असम्मृष्ट इति ॥ असम्पृष्टः अविनाशितः । मृश आमर्शने, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षःप्रभृतिभिरपरामृष्टोसीति यावत् । हव्यानां हृदयादीनां सूदः पाचकः । षूद क्षरणे, पाकविशेषः क्षरणम् कर्मण्यणू, कूलसूदस्थलकर्षास्संज्ञायाम् ' इत्युत्तरपदाद्युदात्तत्वम् ॥
6
" सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठते ऋतधामेति ॥ ऋतं सत्यं यज्ञो वा तत् धाम स्थानं यस्यास्सा ऋतधामा । यद्वाऋतं साम तद्धाम यस्याः, तन्मूले हि साम गीयते, 'औदुम्बरी स्ष्टष्ट्वोद्गायत्' इति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऋतशब्दो
*क- हवि.
---
For Private And Personal Use Only
---