SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३.] भभास्करभाष्योपेता 273 कुशानुः परिषद्योसि पर्वमानः असि । मार्जालीयः । सम्राडिति सं-राट् । असि । कुशानुरिति कुश-अनुः । "परिषद्य इति परि-सद्यः । असि । पवमानः । त्ययः । वर्णव्यत्ययेन दीर्घत्वम् । मृज्यन्ते पात्राणीति मार्जालीयः । 'स्थाचतिमृजेरालज्वालयालीयचः' इत्यालीयच्प्रत्ययः, 'उपोत्तमं रिति' इत्युपोत्तमस्योदात्तत्वम् । त्वयि कृतमार्जनानां पात्राणां शोधयितासीत्यर्थः । एवमष्टौ न्युप्यन्ते ॥ 'अथाष्टावनुदिश्यन्तेनुक्रमेण सङ्कीर्त्यन्ते उपतिष्ठमानेन । आहवनीयमुपतिष्ठते-सम्राडिति ॥ सम्यग्राजतीति सम्राट् । 'सत्सूद्विष' इत्यादिना क्वि', 'मो राजि समः क्वौ ' इति मकारः, कृदुत्तरपदप्रकृतिस्वरत्वम् । कृशा अल्पा अनवः प्राणिनो यस्मिन् स कशानुः, यस्मिन्सम्यग्राजति सर्वे प्राणिनः स्वल्पवीर्यशरीरैश्वर्या भवन्ति तादृशोसीत्यर्थः । कश अल्पीभावे, इगुपधलक्षणः कः। भृमृशीप्रभृतिभ्यो विधीयमान उप्रत्ययो बहुलवचनादनितेरपि भवति ।। "आस्तावमुपतिष्ठते-परिषद्योसीति ॥ परितस्सीदन्त्यस्मिन्निति परिषद्यः । 'शकि सहोश्च' इति चकारस्यानुक्तसमुच्चयार्थत्वात् 'कृत्यल्युटो बहुलम् ' इति बहुलवचनाद्वा अधिकरणे यत्प्रत्यपः, 'सदिरप्रतेः' इति षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'यतोऽनावः' इत्याद्युदात्तत्वम् । पवमानश्शोधनं कुर्वन् । 'पूङयजोश्शानन् ' इति शानन्प्रत्ययः, पूङ् पवने भौवादिकः । बहिप्पवमानसम्बन्धादा पवमान इत्युच्यते ॥ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy