________________
Shri Mahavir Jain Aradhana Kendra
272
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
27
रसि॒ बम्भा॑रिव॒स्युर॑सि॒ दुव॑स्वाज्ऴुन्ध्यूर॑सि माजो॒लीय॑स्स॒म्राड॑सि वम्भारः । 'अ॒व॒स्युः । अ॒सि॒ दुव॑स्वान् । 'शुन्ध्यूः ।
7
[का. १.प्र. ३.
रिरङ्घारिः, शानचो लोपः । यद्वा – पचाद्यजन्तस्समस्यते । एवं यम्भ्रम्यमाणारिर्बम्भारिः। भ्रमेर्यङ्कुगन्तात्पचाद्यच्, रेफमकारयोर्लोपः । विनष्टैश्वर्यतया व्याकुलत्वं बम्भ्रम्यमाणत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्मिन्पक्षे वृषादित्वात्पूर्वपदस्याद्युदात्तत्वं द्रष्टव्यम् । यद्वा — बम्भ्रमदरिर्बम्भारिः इति शत्रन्तस्तमस्यते, स च ' अभ्यस्तानामादिः ' इति आद्युदात्तः ॥
"
"अच्छावाकस्य धिष्ण्यं निवपति -- अत्रस्युरिति ॥ वातविशेषवचनावेतौ । यथा अवस्यवे त्वा वाताय स्वाहा । दुवस्वते त्वा वाताय स्वाहा ' * इति । तत्सम्बन्धित्वेनास्य स्तुतिः | अव रक्षणे, अवतेरसुन्प्रत्ययः, तदिच्छति सर्वेषामिति ' छन्दसि परेच्छायामपि ' इति क्यचि 'क्याच्छन्दसि ' इत्युप्रत्ययः । दुवस्यतिः परिचारकर्मा । कण्ड्डादिः प्रातिपदिकत्वपक्षे ' तदत्त्या - स्त्यस्मिन् ' इति मतुप् । परिचरणवान् सर्वैः परिचर्य इत्यर्थः । वृषादित्वादाद्युदात्तत्वम् । निपातो वायं दृष्टव्यः ॥
मायं नित्रपति — शुन्ध्यूरिति ॥ शुन्ध्यूः शोधयिता, पात्रप्रक्षाळनस्थानत्वात् । ' यजिमनिशुन्धि' इत्यादिना युच्प्र
* तै. आ ४-९.
For Private And Personal Use Only