________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.
भभास्करभाष्योपेता
271
विश्ववेदा उशिगंसि कविरवारवेदाः। उशिस् । असि । कविः। अारिः। अमि।
देवानां दक्षिणा विभजति '* इति ब्राह्मणे तुथः प्रसिद्धः । स एव त्वमसीति स्तूयते विभागसामर्थ्य प्रकटयितुम् । अयमपि हि ब्राह्मणानि विभज्य शंसति । तु इति सौत्रो धातुः वृद्धिकर्मा, 'पातृतुदि' इत्यादिना पिबत्यादिभ्यो विधीयमानः स्थक्प्रत्ययो बहुलवचनादस्मादपि भवति । महानित्यर्थः । यद्वा-स्तौतेस्स्थक्याद्यवर्णलोपः; यथोक्तम्-'द्वौ चापरौ वर्णविकारनाशौ ' इति । स्तुत्य इत्यर्थः । विश्वं थेत्ति विन्दतीति वा विश्ववेदाः । 'गतिकारकयोरपि पूर्वपदप्रकृतित्वरत्वं च ' इति कारकपूर्वादसुन्प्रत्ययः, तत्र पूर्वपदप्रकृतिस्वरग्रहणस्य बहुव्रीहिस्वरस्योपलक्षणत्वात् 'बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । सर्वधनो वा ॥
पोतुर्धिष्ण्यं निवपति-उशिगसीति ॥ पोतारौ देवकवी । यथा--' मन्द्रा पोतारा कवी प्रचेतसा '' इति । अतोस्यापि तद्रूपेण स्तुतिः । उशिक् कमनीयः स्टहणीयः । वश कान्तौ, 'वशः किच्च' इतीजिप्रत्ययः । कविः कान्तदर्शनः सूक्तिमार्गाणां द्रष्टा । कु शब्दे, 'अच इ:' इतीप्रत्ययः ।। ___ नेष्टुधिष्ण्यं निवपति-अशारिरिति ॥ द्वावेतावनिविशेषौ । यथा- स्वान भ्राजाज्ञारे बम्भारे । इति । तावत्र स्तूयेते । अङ्घमानाः स्वमार्गप्रच्युता अरयो यस्य सोनारिः । अङ्घमाना
*सं. ६.६.१. बिा, ३-६-२. सं. १.२०७1०
-
For Private And Personal Use Only