SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ___www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 तैत्तिरीयसाहता . का. १. प्र. ३. __वानश्वात्रोति प्रचैतास्तुथोसि प्र-वाहनः । वह्निः । आति । हव्यवाहन इति हव्य-वाहनः । श्वात्रः । असि । प्रचैता इति प्र-चेताः । 'तुथः । अति । विश्ववेदा इति विश्व होतुधिष्ण्यं निवपति-वह्निरसीति ॥ वहतिरावाहने वर्तते । ' वहिथि' इत्यादिना निप्रत्ययः ; तत्र हि निदित्युच्यते । वह्निरसि देवानामावाहकोसि, आह्वातासीति यावत् । आहूय तेभ्यो हव्यानां हविषां वोढा प्रापयिता चासि । 'हव्येऽनन्तः पादम् ' इति ज्युट् , कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ "मैत्रावरुणस्य धिष्ण्यं निवपति-श्वात्रोसीति ॥ आशुशब्दस्य पूर्वापरवर्णविपर्ययः; आशु त्राता श्वात्रः । मित्रमेव तथा करोति। 'आतोनुपसर्गे कः' इति कः क्रियाविशेषणानामपि कर्मत्वात् , थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । यहा-आशु सर्वदा गच्छतीति श्वात्रः । मित्रमेव तथा करोति । सर्वथा व्युत्पत्त्यनवधारणान्नावगृह्यते । अत सातत्यगमने, 'दादिम्यश्छन्दसि' इति त्रन्प्रत्ययः, 'त्रिचक्रादीनामन्तः । इत्यन्तोदात्तत्वम्, 'तितुत्र' इतीनतिषेधः । प्रकृष्टश्चेतयतीति प्रचेताः । चिती संज्ञाने, 'गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वं च ' इति तस्मादसुन्प्रत्ययः, पूर्वपदप्रकृतिस्वरत्वं च । प्रचेता वरुणः । एवं मित्रावरुणसम्बन्मिनो मेत्रावरुणस्य धिष्ण्यं ताभ्यामभेदेन स्तूयते ॥ 'बामणाच्छंसिनो धिष्ण्यं निवपति-तुथोसीति ॥ तुथोनामानिः दक्षिणाविभागकृत् । 'तुथो ह स्म वै विश्ववेदा For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy