SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अनु. ३०] ---- इत्यादि ब्राह्मणम् । तत्रामीघ्रीयं निवपति चात्वालापुरीषं सिकता इति गृहीत्वा परिमण्डलं धिष्ण्यं करोति — विभूरिति ॥ ' रौद्रेणानीकेन ' इत्यादि सर्वत्रानुषज्यते । आधेयानिधर्मा आधारेषूपचर्यन्ते । विविधं भवितासीति विभूः । ' आग्नीध्राद्धिष्णियान्विहरति ' इति सर्वधिष्ण्यादित्वाद्विभूरित्युच्यते । ' भुवस्संज्ञान्तरयोः' इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यत एवंविधोसि तस्मात्प्रवाहणस्त्वं प्रकर्षेण हविषां वाहयिता स्वात्मनान्यैश्व धिष्ण्याधारैरग्निभिः । वहतेर्ण्यन्ताद्बहुलवचनात्कर्तरि करणे वा ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम्, लिति ' इति प्रत्ययात्पूर्वस्योदात्त 6 6 त्वम् , कृत्यचः ' इति णत्वम् । यद्वा-वाह्न प्रयत्ने, तस्मायुट् । यज्ञार्थं प्रकर्षेण व्याप्रियमाण इति यावत् । रौद्रेण क्रूरेण अनीकेन सैन्येन । रौद्रमिव रौद्रम् । यथा रौद्रगणः क्रूरो भवति एवमन्यदपि यत्क्रूरं तद्रौद्रम् ।' संज्ञायां च ' इत्युत्पन्नस्य कनः देवपथादित्वाल्लुप्, 'संज्ञायामुपमानम्' इत्याद्युदात्तत्वम् । 'स्फिगन्तस्योपमेयनामधेयस्य' इति वा । हे अने अग्न्याधार मां पाहि रक्ष, पिष्टहि पूरय च मां कामैः । पृ पालनपूरणयोः अनुदात्त उदात्तेत् जुहोत्यादिकः, • अर्ति भभास्करभाष्योपेता WWW Acharya Shri Kailassagarsuri Gyanmandir *सं—६०३-१. पिपर्त्योश्च' इत्यभ्यासस्येत्वम् । यद्वा --- पिष्टहि तृप्य अस्मासु सानुग्रहो भव । प्रीतौ भौ[सौ ?] वादिकः उदात्तेत्, 'बहुळं छन्दसि' इति शपश्शुः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । मा च मा हिंसीः । अत्र ' चादिलो पे विभाषा' इति प्रथमा तिङ्भक्तिर्न मिहन्यते, अपदात्परत्वाद्वितीया न निहन्यते, निहन्यत एव ॥ तृतीया तु For Private And Personal Use Only 269 *37
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy