________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
266
तैत्तिरीयसंहिता
[का. १. प्र. ३.
मि वैष्णवाव्रक्षोहणों वलगृहनोक्षि जुहोमि वैष्णवाव्रक्षोहणौ वलंगह
नावुप॑ दधामि वैष्णवी रक्षोहणौ "रक्षोहण इति रक्षः-हनः । वलगहन इति वलग-हनः । अभीति । जुहोमि । वैष्णवान् । “रक्षोहणाविति रक्षः-हनौ । वलगहनाविति वलगहनौं । उपेति । दधामि । वैष्णवी इति । "रक्षोहणाविति रक्षः-हनौ । बलगहनाविति वलग
"हिरण्यमन्तर्धाय स्वाहुत्या उपरवानभिजुहोति-रक्षोहण इति ॥ युष्मानभिजुहोमीति युष्मानाज्येन व्याघारयामीति । 'प्राणेप्वेव तेजो दधाति '* इति ब्राह्मणम् ॥ ___अधिषवणफलके उपदधाति-रक्षोहणाविति ॥ एवंगुणे युवामुपदधामीति । वैष्णवी वैष्णव्यौ । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । 'हनू वा एते यज्ञस्य यदधिषवणे '* इत्यादि ब्राह्मणम् ॥ ___"अधिषवणफलके प्रदक्षिणं पुरीषेण पर्वृहति-रक्षोहणाविति ॥ युवां प¥हामीति पुरीषेण परितः पूरयित्वा द्रढयामीति । 'उपसर्गादस्यत्यूह्योर्वा वचनम् ' इति परस्मैपदम् ॥
*सं. ६-२-११.
For Private And Personal Use Only