SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 तैत्तिरीयसंहिता [का. १. प्र. ३. वाष्ट्राणा हुन्ता ॥ ३ ॥ रक्षोहणौ दलगृहनः प्रोक्षामि वैष्णवानविश्वासाम् । नाष्ट्राणाम् । हन्ता ॥ ३ ॥ "रक्षोहण इति रक्षः-हनः । वलगहन इति वलग-ह रानतीति विराट् । 'सत्सूद्विष ' इति क्विप् , कृदुत्तरपदप्रकृतिस्वरत्वम् । सपनाश्शत्रवस्तेषां हन्ता । 'बहुलं छन्दसि' इति क्विप् । यस्मात्त्वं विविधं दीप्यसे तस्मात्सपनहा । सङ्गतं दीप्यत इति सम्राट । 'मो राजि समः क्वौ' इति मस्य मः । यस्मादेवं तस्मात्त्वं भ्रातृव्यहा । भ्रातृव्यास्सपनाः । 'व्यन् सपने' इति व्यन्प्रत्ययः । तेषां हन्ता बाह्याभ्यन्तरभेदेन नित्यानित्यभेदेन वा शत्रूणां प्रथगभिधानम् । स्वायत्तं दीप्यस इति स्वराट् । यस्मादेवं तस्मात्त्वं भिमातिहा । अभिमातिः पाप्मा । मन्यतेः क्तिनि नित्यमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्किमलोः' इति दीर्घत्वम् । ततः 'अनुदात्तोपदेश' इत्यादिनानुनासिकलोपः । तस्या हन्ता । महाबलेन हि पाप्मा निहन्तुं शक्यते । विश्वेषु लोकेषु राजतीति विश्वाराट् । 'विश्वस्य वसुराटोः' इति दीर्घः । यस्मादेवं तस्माद्विश्वासां नाष्ट्राणां नाशयितॄणां दैनादिप्रवृत्तीनां हन्ता नाशयिता त्वमसि । नशेर्ण्यन्तात् 'दादिभ्यश्छन्दसि' इति त्रन्प्रत्ययः, 'तितुत्रतथ' इतीटुतिषेधः, गिलोपे उदात्तनिवृत्तिस्वरेण वन उदात्तत्वम् , 'व्रश्च' इत्यादिना षत्वम् ॥ - "उपरवान्प्रोक्षति-रक्षोहण इति ॥ युष्मान् प्रोक्षामीति सम्बन्धः ॥ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy