________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
262
तैत्तिरीयसंहिता
ने॒दमे॑न॒मध॑रं करोमि॒ यो न॑स्समा॒ानो यज॑मानोराति॒यति॑ गाय॒त्रेण॒ नि॒च॒खानेति॑ नि-च॒खान॑ । इ॒दम् । ए॒न॒म् । अध॑रम् । क॒रोमि॒ । यः । नः । स॒मा॒नः । यः। अस॑मा॒नः । अरातीयति॑ । गा॒य॒त्रेण॑ । छन्द॑सा । 'अव॑बाढ़ इत्यव॑ वा॒दुः । व॒लग इति॑ वल - गः ।
Acharya Shri Kailassagarsuri Gyanmandir
इति गतेरनुदात्तत्वम्, 'उदात्तवता तिङा' इति समासः । यं चास्माकमसमानः अतुल्यः ऊनः उक्तृष्टो वा वलगं निचखान, तमुद्वपामीति । 'द्वौ वाव पुरुषौ यश्चैव समानो यश्वासमानः '* इत्यादि ब्राह्मणम् । किञ्च - एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह — योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा- -अस्मानरातीयति यस्समानोसमानो वा । । ' उपमानादाचारे ' इति क्यच् । गायत्रेण छन्दसा उद्वपामि । गायत्र्येव गायत्रम् | छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्' इत्यण्प्रत्ययः । एवं दक्षिणपूर्वमारभ्य सर्वेभ्य उद्बपति । त्रैष्टुभेन जागतेनानुष्टुभेनेति विशेषोन्यत्र ||
6
[का. १. प्र. ३०
'यजमानस्याधस्तात्पदपांसूनुद्वपति — अवबाढ इति ॥ यजमा
--
*सं. ६-२-११.
6
नस्य पादयोरधस्तात् बाढो बद्धो वलगोस्तु । बाह्र प्रयत्ने, क्षुब्धस्वान्त ' इत्यत्र निपातितः, ' गतिरनन्तरः' इति पूर्वप - दप्रकृतिस्वरत्वम् ॥
For Private And Personal Use Only