________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
261
खेनामीदमहं तं वलगमुपामि
यनस्समानो यमसमानो निचखावलग-हनः। वैष्णवान् । खनामि । इदम् । अहम् । तम् । वलगमिति वल-गम् । उदिति । वपामि । यम्। नः । समानः। यम् । असमानः।
णत्वम् । 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इत्युपधालोपो न क्रियते । कृदुत्तरपदप्रकृतिस्वरत्वम् । वलो नामासुरमुख्यः, तद्गामिनस्तद्धृत्या वलगाः । यद्वा-वृणोतीति वलो मेघः । कालकादित्वाल्लत्वम् । स इव छादयन्तो ये गच्छन्ति ते वलगाः असुरविशेषाः । यद्वा-जीर्णकटपटादिखण्डसम्भृताः अस्थिनखरोम पादपांसुप्रभृतयः प्राणिनां मारणार्थ ये भूनौ निखन्यन्ते ते वलगाः । ते हि प्राणिनां बाधकतया वलगामिनो वलवल्लल्या भवन्ति । 'अन्यत्रापि दृश्यते' इति गमेर्डः । तेषां हन्तारी वलगहनः । ईदृशान्विष्णुदेवत्यानुपरवान् खनामि । 'वैष्णवा हि देवतयोपरवाः '* इति ब्राह्मणम् । देवानां नासिकादिप्राणस्थानीया उपरवाः । 'शिरो वा एतद्यज्ञस्य यद्धविनं प्राणा उपरवाः '* इति ब्राह्मणम् । ते च खन्यमाना रक्षांसि पलगांश्च निघ्नन्तीति । 'असुरा वै निर्यन्तः '* इति ब्राह्मणम् ॥
"पांसू नुहपति-इदमहमिति ॥ इंदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्रपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याहनः अस्माकं समानस्तुल्यः यं वलगं निचखान । 'तिङि चोदात्तवति' *सं. ६-२-११
*36
अस्माकं समायामि उद्धृत्य बाण इदमिति कि
For Private And Personal Use Only