________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
259
गिर इमा भवन्तु विश्वतो वृद्धायुमनु
वृद्धयो जुष्टा भवन्तु जुष्टय इन्द्रस्य विश्वतः । वृद्धायुमिति वृद्ध-आयुम् । अन्विति । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः। “इन्द्रस्य ।
नीय सम्भननीय । असुनन्तस्यामन्त्रितत्वादनुदात्तत्वम् । इमा वक्ष्यमाणास्स्तोत्रशस्त्रादिलक्षणा गिरः त्वां परिभवन्तु व्याप्नुवन्तु विश्वतस्सर्वतः । परिभवतिः व्याप्तिकर्मा । यहा-'लक्षणेत्थंभूताख्यान ' इति भागे लक्षणे वा द्योत्ये परेः कर्मप्रवचनीयत्वम्। इमा गिरस्त्वां परिभवन्तु तव भागात्मना भवन्त्यस्त्वामेव भजन्तामिति यावत् । यत्र त्वं तत्र भवन्त्विति वा । किञ्च-वृद्धायुर्दीर्घायुः । 'छन्दसीणः' इत्युण्प्रत्ययान्तेन बहुव्रीहिः । ईदृशं त्वामनु वृद्धयस्समृद्धयो भवन्तु | अनोर्लक्षणे भागे वा कर्मप्रव. चनीयत्वम् । यत्र त्वं तत्र समृद्धयो भवन्त्विति यावत् । त्वामेव भजन्तामिति वा । सदसि हि सर्वाः स्तुतयः क्रियन्ते सर्वाश्च समृद्धयस्सम्पद्यन्ते । अपि च जुष्टयस्सेवा अस्माभिः क्रियमाणास्तव जुष्टा इष्टा भवन्तु । 'नित्यं मन्त्र' इति जुष्टशब्दआधुदात्तः॥
18दक्षिणहार्बाही कुशमुष्टिमुपनिगृह्य दर्भेण स्पन्द्यां प्रवर्तयतिइन्द्रस्येति ॥ 'विष्णोस्स्यूरसि '* इत्यनेनेदं व्याख्यातप्रायम् । सदस ऐन्द्रत्वादत्रैवमुच्यते ॥
*सं-१.२-१३.13
For Private And Personal Use Only