________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
256
तैत्तिरीयसंहिता
[का. १. प्र. ३.
द्युतानस्त्वा मारुतो मिनोतु मित्रा"द्युतानः । त्वा । मारुतः । मिनोतु । मित्रावरुणयोरिति मित्रा-वरुणयोः । ध्रुवर्ण । धर्मणा ।
इति तौदादिकः । तथा एथिवीं पृथिवीस्थान् इंह वर्धय । दृह दहि वृद्धौ । एथिवीशब्दो डीषन्तोन्तोदात्तः ॥
- प्राचीनकर्णामौदुम्बरीम्मिनोति-द्युतानस्त्वेति द्विपदया विराजा जगत्या वा ॥ द्योतनशीलो द्युतानः । द्युतेस्ताच्छीलिकश्चानश् । 'बहुलं छन्दसि' इति शणे लुक् । यद्वा—' युधिबुधिशां किच्च' इति विधीयमान आनच्प्रत्ययो बहुलवचनाद्दयुतेरपि भवति । सर्वथा सार्वधातुकत्वाभावात् 'अनुदात्तेतः' इति लसार्वधातुकानुदात्तत्वस्याप्रवृत्तेः 'चितः । इत्यन्तोदात्तत्वमेव प्रवर्तते । हे औदुम्बरि द्युतानो मारुतस्त्वां मिनोतु अवटे प्रक्षिपतु ; द्युताननामा वा मारुतस्त्वां मिनोतु । ' द्युतानो ह स्म वै '* इत्यादि ब्राह्मणम् । डु मिञ् प्रक्षेपणे, सौवादिकः । मरुच्छब्दात्प्रज्ञादित्वात् स्वार्थिकोण्प्रत्ययः । मित्रावरुणसम्बन्धिना ध्रुवेण नित्येन धर्मणा कर्मणा धारणेन वा त्वां मिनोतु । 'देवताद्वन्द्वे च' इति मित्रावरुणशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । 'उदरं वै सदः '* इत्यादि ब्राह्मणम् ॥
*सं-६-२-१०.
For Private And Personal Use Only