________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्मास्करभाष्योपेता
255
रांतीः पितृणा५ सदनमस्युदिवडू
स्तभानान्तरिक्षं पृण पृथिवीं दृह द्वेषः ॥ १॥ यवयं । अरातीः । पितृणाम् । सदनम् । असि । "उदिति । दिवम् । स्तभान । एति । अन्तरिक्षम् । पृण । पृथिवीम् । दृह ।
इति विच् । द्वेषः द्वेष्टुन्विनाशय । किञ्च-अरातीः अदातून शत्रूश्च यवय । रातः कर्तरि तिनि क्तिचि वा नसमासेऽ व्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मदीयांश्च शत्रून्नाशयेत्यर्थः । अपदात्परत्वादिदमाख्यातं न निहन्यते । 'उर्वै यवः ' इत्यादि ब्राह्मणम् ॥
तस्मिन्व्यतिषज्य बहिर्मुष्टिं निदधाति-पितृणामिति ॥ सीदन्त्यस्मिन्निति सदनं आसनम् । अधिकरणे ल्युट् , लित्स्वरेणाघुदात्तत्वम् । पितॄणामासनमसि । 'नामन्यतरस्याम्' इति षष्ठीबहुवचनस्योदात्तत्वम् , 'छन्दस्युभयथा' इति 'नामि' इति दीर्घत्वं न क्रियते । 'पितृदेवत्यं ह्येतत् '* इत्यादि बाह्मणम् ॥
1°औदुम्बरीमुच्छ्यति–उद्दिवमिति ॥ हे औदुम्बरि दिवं दिविष्ठानुत्तभान उत्तम्भय धारय । स्तन्भुस्सौत्रो धातुः, 'स्तन्भु स्तुन्भु' इति भाप्रत्ययः । 'हलश्श्शश्शानज्झौ' इति शाननादेशः । तथा अन्तरिक्षमन्तरिक्षस्थान् एण प्रीणय । प्रण प्रीणने
*सं.-६-२-१०,
For Private And Personal Use Only