________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
254
तैत्तिरीयसंहिता का. १. प्र. ३. शुन्धतां लोकः पितृषदनो यौ
सि यवयास्मद्वेषः ॥ १॥ यवयात्वा । 'शुन्धताम् । लोकः । पितृषदन इति पितृसदनः । यवः । असि । यवयं । अस्मत् ।
व्याख्यातम् * द्युलोकादिस्थित्यर्थ त्वां प्रोक्षामीत्यौदुम्बर्या अग्रमध्य. मूलानि पृथक्टथक्प्रोक्ष्यन्ते । 'परस्तादर्वाचीम् + इत्यादि ब्राह्मणम् ॥
'अवटे अपोवनयति-शुन्धतामिति ॥ पितरस्सीदन्त्यस्मिन्निति पितृषदनः । अधिकरणे ल्युट्, कुदुत्तरपदप्रकृतिस्वरत्वम् , लित्स्वरेण सदनशब्द आधुदात्तः, सुषामादित्वात्षत्वम् । ईटशोयं लोकः अवटाख्योवकाशश्शुन्धताम् शुद्धो भवतु । व्यत्ययेनात्मनेपदम् , 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । 'क्रूरमिव वा एतत्करोति यत्खनत्यपोवनयति शान्त्यै । इति ब्राह्मणम् ॥ ___ अवटे यवान्प्रक्षिपति-यवोसीति ॥ यावयति अपनयति क्षुधमिति यवः । यौतेः पृथग्भावकर्मणोन्तर्भावितण्यर्थात् 'पुसि संज्ञायां घः', वृषादित्वादाद्युदात्तत्वम् । बहुलग्रहणाद्वा कर्तरि 'दोरम्' इत्यप् । जात्याख्यायामेकवचनम् । ईदृशस्त्वमस्मत् अस्मत्तः द्वेषः द्वेष्यं रक्षःप्रभृति यवय अपनय विनाशय । यौतेणिचि ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न क्रियते; तिङः परत्वान्न निहन्यते । यहा--द्विषेः 'अन्येभ्योपि दृश्यते' *सं-१-१-११५.
सिं-६-२.१०.
For Private And Personal Use Only