________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपैता
253
रक्षः परिलिखिता अरातय इदमह५ रक्षसो ग्रीवा अपि कुन्तामि योऽस्मान्देष्टि यच वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामि दिवे
त्वान्तरिक्षाय त्या पृथिव्यै त्वा असि। परिलिखितमिति परि-लिखितम् । रक्षः परिलिखिता इति परि-लिखिताः । अरातयः। इदम् । अहम् । रक्षसः । ग्रीवाः । अपीति । कृन्तामि । यः। अस्मान् । दृष्टि। यम् । च । वयम्। द्विष्मः । इदम् । अस्य । ग्रीवाः। अपीति । कृन्तामि। 'दिवे । त्वा । अन्तरिक्षाय । त्वा । 'पृथिव्यै । एवं वा-यद्यपि तीक्ष्णतया हिंसिकासि, तथापि त्वं मम नारिरसि अरिन भवसि मित्रमेवासि । 'सुप्सुपा' इति प्रतिषेधवचनो नशब्दस्समस्यते, सानुबन्धकश्चेन्नलोपेन भाव्यम् , अव्ययपूर्वपदप्रकृतिस्वरत्वं व्यत्ययेन, 'अव्यये नकुनिपातानाम् ' इति वचनात् । शान्त्यर्थ चैवमियमुच्यते, ‘वज इव वा एषा यदभिरभिरसि नारिरसीत्याह शान्त्यै '* इति ब्राह्मणम् ।।
तयावटं परिलखति-परिलिखितमिति ॥ अपिकन्तामीत्यन्तो मन्त्रो व्याख्यातः ॥ +-अग्रादारभ्यौदुम्बरों प्रोक्षति-दिवे वेति ॥ बर्हिःप्रोक्षणे *सं-६-२-१०.
सं-१-२-५३.
*35
For Private And Personal Use Only